SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्वज्ञानवि० ॥ २९७ ॥ Jain Education र्भिन्नाहारत्वेन शीतादिसम्पर्कतञ्चावश्यमचित्तीभवति, केचित्तु योजनशतस्थाने गव्यूतशतं पठन्ति, यदुक्तं निशीथ चूर्णो – 'केई पठंति गाउयसयगाहा' इति, तथा 'भंड संकंती 'ति प्राकृतत्वेन विभक्तिव्यत्ययात् भाण्डसङ्क्रान्त्या - पूर्वभाजनादपरभाजनप्रक्षेपणेन पूर्वभाण्डशालाया वाऽन्यभाण्डशालासंचारणेन वाताग्निधूमैश्च योजनशतमगतमपि स्वस्थानेऽन्तरे वा वर्तमानं लवणादिकमचित्तं भवतीति । इत्थं च क्षेत्रादिक्रमेणाचित्तीभवनं पृथिवीकायिकानां वनस्पतिपर्यन्तानां सर्वेषामपि प्रतिपत्तव्यम् ।। १००१ ।। अत एवाह - 'हरियाले 'त्यादि, हरितालादयः प्रतीता एव, नवरं मुद्रिका - द्राक्षा अभया-हरितकी, एतेऽप्येवमेव ज्ञातव्याः, योजनशतात्परतः पूर्वोक्तैरेव हे तुमि र चित्तीभवन्तीति भावः, 'आइन्नमणाइन्न'त्ति योजनशतादागता अपि केचिदाचीर्णाः केचित्पुनरनाचीर्णाः, तत्र पिप्पलीहरितक्यादय आचीर्णा अतो गृह्यन्ते खर्जूरद्राक्षादयः पुनरनाचीर्णास्ततोऽचित्ता अपि न गृह्यन्ते इति ॥ २ ॥ अथ लवणादीनामेवाचित्तताकारणाभिव्यञ्जनायाह - 'आरुहणे' इत्यादि, तेषां लवणादीनामारोहणे - शकटगवादिपृष्ठादिष्वधिरोपणे सति तथा अवरोहणे - शकटादिभ्य एवावतारणे तथा निषीदन्तीति नन्द्यादेराकृतिगणत्वाद्युप्रत्यये निषदना - लवणाद्युपरि निविष्टपुरुषाः तेषां गवादीनां च गात्रोष्मणा, तथा यो यस्य लवणादेराहारो भौमादिः - पार्थिवादिस्तस्य व्यवच्छेदे च-अभावे सति, तथा उपक्रम्यते - बहुकालवेद्यमप्यायुः स्तोकेनैव कालेन निष्ठां नीयते अनेनेत्युपक्रमः - स्वकायशस्त्रादिः, तथाहि - किञ्चित्कस्यचित् स्वकायशस्त्रं यथा क्षारोदकं मधुरोदकस्य किच्चित्परकायशस्त्रं यथा ज्वलनो वनस्पतेः किञ्चित्तूभयशस्त्रं यथा मृत्तिकामिश्रमुदकं शुद्धोदकस्य, तेन च परिणामः - अचित्तता भवति, सचित्तमप्येभिः कारणैरचित्ततारूपेण परिणमतीत्यर्थः १५५ ॥ ३ ॥ इदानीं च 'धन्नाई चउवीसं ति षट्पञ्चाशदधिकशततमं द्वारमाहधन्ना चवीसं जव १ गोहुम २ सालि ३ वीहि ४ सट्ठी ५ य । कोद्दव ६ अणुया ७ कंगू ८ For Private & Personal Use Only १५५ योजनशतेनाचित्तता गा. १००११००३ ।। २९७ ॥ ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy