SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कुसुंभं कङ्क:-पीततण्डुलाः 'कोड्सग'त्ति कोरदूषका:-कोद्रवविशेषाः शर्ण-त्वप्रधानो धान्यविशेषः, 'बरठ'त्ति धान्यविशेषः, स| बरठीति सपादलक्षादिषु प्रसिद्धः सिद्धार्था:-सर्षपाः कोद्रवाः प्रतीता एव रालक:-कविशेषः मूलक-शाकविशेषस्तस्य बीजानि मूलकबीजानि एतेषां दशानामपि धान्यानां कोष्ठकादिषु निक्षिप्तानां उपलक्षणमेतत् पिहितानामवलिप्तानां लाञ्छितानां मुद्रितानां चोत्कृष्टायां स्थितौ सप्त वर्षाणि भवन्ति, जघन्येन पुनः समग्राणां सर्वेषामपि पूर्वोक्तानां धान्यानामन्तर्मुहूर्त स्थितिर्भवति, अन्तर्मुहूर्ताच्च परतः स्वायुःक्षयादेवाचित्तता जायते, सा च परमार्थतोऽतिशयज्ञानेनैव सम्यक्परिज्ञायते न छाद्मस्थिकज्ञानेनेति न व्यवहारपथमवतरति, अत| | एव च पिपासापीडितानामपि साधूनां स्वभावतः स्वायुःक्षयेणाचित्तीभूतमपि तडागोदकं पानाय वर्धमानस्वामी भगवान् नानुज्ञातवान् , इत्थंभूतस्याचित्तीभवनस्य छद्मस्थानां दुर्लक्षत्वेन मा भूत्सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्यसाधूनां प्रवृत्तिप्रसङ्ग इति कृत्वा १५४ ॥ ९९९ ॥ १०.०॥ इदानीं 'खेत्ताइयाणऽचित्तंति पञ्चपञ्चाशदधिकशततमं द्वारमाह जोयणसयं तु गंता अणहारेणं तु भंडसंकंती। वायागणिधुमेहि य विद्धत्थं होइ लोणाई॥१००१॥ हरियालो मणसिल पिप्पली उ खज्जूर मुद्दिया अभया। आइन्नमणाइन्ना तेऽवि हु एमेव नायव्वा ॥२॥ आरुहणे ओरहणे निसियण गोणाइणं च गाउम्हा । भोम्माहारच्छेओ उवक्कमेणं तु परि णामो॥३॥ एक योजनशतं गत्वा-अतिक्रम्य लवणादि विध्वस्तम्-अचित्तं भवति, केनेत्याह-अनाहारेण-खदेशजसाधारणाहाराभावेन, अयमर्थः&ाविवक्षितक्षेत्रादन्यत्र क्षेत्रे लवणादिकं यदा नीयते तदा तत्प्रतिदिनं विध्वस्यमानं २ तावद्गच्छति यावद्योजनशतं, योजनशतादूई पुन Jain Education Internatif For Private Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy