________________
| लोकपूज्यान - त्रिभुवनाभ्यर्चनीयान् जिनान् तीर्थकृतो जितकषायान्-निरस्तसमस्तद्वेषादिदोषान् अन्यद्वा जिनापेक्षया निजदोषप्रत्यनीकं - स्वकीय कामक्रोधप्रमुखदूषणप्रतिपक्षभूतं कामनिन्दाक्षान्तिप्रभृतिकं ध्यायति, कियत्प्रमाणेयं पञ्चमी प्रतिमेत्याह-पश्च मासान् यावदिति ॥ ९८७ ॥ अथ षष्ठीं प्रतिमामाह - 'सिंगारे 'त्यादि, शृङ्गारकथा - कामकथा तथा विभूषायाः - स्नानविलेपनधूपप्रभृतिकाया उत्कर्ष:प्रकर्षः ततः समाहारद्वन्द्वः तद्वर्जयन् परिहरन्, उत्कर्षग्रहणाच्छरीरमात्रानुगां विभूषां विदधात्यपीति, तथा स्त्रिया - योषिता सह रहसि कथां-प्रणयवार्ता वर्जयन्, किमित्याह-वर्जयति अब्रह्म-मैथुनमेकं 'तओ य'त्ति तक:- असौ प्रतिमाप्रतिपत्ता षष्ठयां - अब्रह्मवर्जनप्रतिमायां षण्मासान् यावत् पूर्वस्यां हि प्रतिमायां दिवस एव मैथुनं प्रतिषिद्धं, रात्रौ पुनरप्रतिषिद्धमासीत्, अस्यां तु दिवापि रजन्यामपि च सर्वथापि मैथुनप्रतिषेधः, अत एवात्र चित्तविलुतिविधायिनां कामकथादीनामपि प्रतिषेधः कृत इति ॥ ९८८ ॥ अथ सप्तमीं प्रतिमामाह - 'सत्तमी' त्यादि, सप्तम्यां सचित्ताहारवर्जनप्रतिमायां सप्त मासान् यावत् सचित्तं - सचेतन माहारं - अशनपानखादिमखादिम| स्वरूपं नैवाहारयति - अभ्यवहरति, तथा यद्यदधस्तनीनां - प्राक्तनीनां प्रतिमानामनुष्ठानं तत्तत्सर्वमपि - निरवशेषमुपरितनीनां - अप्रेतनप्रतिमानामवसेयं, एतच्च प्रागुक्तमपि विस्मरणशीलविनेयजनानुग्रहाय पुनरुपन्यस्तम्, एवमन्यत्रापि ॥ ९८९ ॥ अथाष्टमीनवम्यो प्रतिमे प्रतिपादयितुमाह - 'आरंभ' त्यादि, अष्टमी-स्वयमारम्भवर्जनप्रतिमा भवति यस्यामष्टौ मासान् यावदारम्भस्य - पृथिव्याद्युपमर्दनलक्षणस्य स्वयं - आत्मना करणं - विधानं वर्जयति परिहरति, खयमिति वचनाच्चै तदापन्नं - वृत्तिनिमित्तमारम्भेषु तथाविधतीत्रपरिणामरहितः परैः कर्मकरादिभिः सावयमपि व्यापारं कारयतीति, ननु स्वयमप्रवर्तमानस्याप्यारम्भेषु प्रेष्यान् व्यापारयतः प्राणिहिंसा तदवस्यैव, सत्यं, किन्तु या सर्वथैव स्वयमारम्भाणां करणतः परैश्च कारणत उभयजन्या हिंसा सा स्वयमकरणतस्तावत्परिहृतैव यतः स्वल्पोऽपि प्रारम्भः परि
Jain Education International
For Private & Personal Use Only
क
www.jainelibrary.org