SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २९५ ॥ Jain Education हियमाण: प्रोज्जृम्भमाणमहाव्याधेः स्तोकतरस्तोकतमक्षय इव हित एव भवति, एषा पुनर्नवमी - प्रेष्यारम्भवर्जनप्रतिमा भवति, यस्यां नव मासान् यावत् पुत्रभ्रातृ प्रभृतिषु न्यस्तसमस्त कुटुम्बादिकार्यभारतया धनधान्यादिपरिग्रहेष्वल्पाभिष्वङ्गतया च प्रेष्यैरपि कर्मकरादिमिरपि आस्तां स्वयं आरम्भान् - सपापव्यापारान् महतः कृष्यादीनिति भावः आसनदापना दिव्यापाराणां पुनरतिलघूनामनिषेध एव, तथाविधकर्मबन्धहेतुत्वाभावेनारम्भत्वानुपपत्तेः ॥ ९९० ॥ अथ दशमीं प्रतिमामाह - 'दसमेत्यादि, दशमी पुनरुद्दिष्टभक्तवर्जनप्रतिमा दश मासान् यावद्भवति, यस्यामुद्दिष्टं - उद्देशस्तेन कृतं विहितमुद्दिष्टकृतं तमेव श्रावकमुद्दिश्य संस्कृतमित्यर्थः एवंस्वरूपं भक्तमपि - ओदनादिकं नैव भुञ्जीत आस्तां तावदितरसावद्यव्यापारकरणमित्यपिशब्दार्थः, 'सो होइ'ति स पुनर्दशमप्रतिमाप्रतिपत्ता कश्चित् क्षुरमुण्ड:- क्षुरमुण्डितमस्तको भवति 'सिहिलिं'ति शिखां वा शिरसि कोऽपि धारयतीति ॥ ९९९ ॥ तथा - 'ज' मित्यादि, नवरं - केवलं स श्रावकस्तत्र तस्यां दशमप्रतिमायां स्थितो यन्निहितं भूम्यादौ निक्षिप्तमर्थजातं - द्रव्यं सुवर्णादिकं तत्पृच्छतां सुतानां पुत्राणां उपलक्षणत्वाद्धात्रादीनां च यदि जानाति ततः कथयति, अकथने वृत्तिच्छेदप्राप्तेः, अथ नैव जानाति ततो ब्रूते नैवाहं किमपि जानामि - स्मरामीति, एतावन्मुक्त्वा नान्यत्किमपि तस्य गृहकृत्यं कर्तुं कल्पत इति तात्पर्यम् ॥ ९९२ ॥ अथैकादशीं प्रतिमामाह - 'खुरे' त्यादि, क्षुरेण मुण्डो- मुण्डितः क्षुरमुण्डो लोचेन वा - हस्तलुवनेन मुण्डः सन् रजोहरणं पतद्रहं च उपलक्षणमेतत् सर्वमपि साधूपकरणं गृहीत्वा 'समणहूओ'ति श्रमणो-निर्ग्रन्थस्तद्वद् यस्तदनुष्ठानकरणात्स श्रमणभूतः साधुकल्प इत्यर्थः विहरेत्-गृहान्निर्गत्य निखिलसाधुसामाचारीसमाचरणचतुरः समितिगुध्यादिकं सम्यगनुपालयन् मिक्षार्थं गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय मिक्षां दत्तेति भाषमाणः, कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणो ग्रामनगरादिष्वनगार इव मासकल्पा For Private & Personal Use Only १५३ श्रा द्धप्रतिमाः गा. ९८०९९४ ॥ २९५ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy