SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० १५३ श्रा प्रतिमाः गा.९८०९९४ ॥२९४॥ पोषधप्रतिमा यस्यां चतुर्दश्यष्टम्यादिषु दिवसेषु-चतुर्दश्यष्टम्यमावास्यापौर्णमासीषु पर्वतिथिषु चतुर्विधमन्याहारशरीरसत्काराब्रह्मचर्यव्यापापरिवर्जनरूपं पौषधं परिपूर्ण, न पुनरन्यतरेणापि प्रकारेण परिहीनं सम्यग् आगमोक्तविधिना स-प्रतिमाप्रतिपत्ता तुशब्दस्यावधारणार्थत्वादनुपालयत्येव-आसेवत एव, एतासु चतसृष्वपि व्रतादिषु प्रतिमासु बन्धादीन-बन्धवधच्छविच्छेदप्रभृतीन् षष्टिसंख्यान अतिचारान् जा द्वादशव्रतविषयान् प्रयत्नतो-महता यत्नेन वर्जयति-परिहरतीति ॥ ९८३ ॥ ९८४ ॥ अथ प्रतिमाप्रतिमास्वरूपमाह-'सम्मेत्यादि, 'सम्म'त्ति सम्यक्त्वं मकारोऽलाक्षणिकः अणुव्रतगुणवतशिक्षाव्रतानि च यस्य विद्यन्ते स तद्वान् , पूर्वोक्तप्रतिमाचतुष्टयान्वित इत्यर्थः, स्थिर:-अविचलसत्त्वः इतरो हि तद्विराधको भवति, यतोऽस्यां प्रतिमायां निशि चतुष्पथादौ कायोत्सर्गः क्रियते तत्र चोपसर्गाः प्रभूताः सम्भवन्तीति, ज्ञानी च-प्रतिमाकल्पादिपरिज्ञानप्रवणः, अजानानो हि सर्वत्राप्ययोग्यः किं पुनरेतत्प्रतिमाप्रतिपत्ताविति, अष्टमीचतुर्दश्योरुपलक्षणत्वादष्टमीचतुर्दश्यमावास्यापौर्णमासीरूपेषु पौषधदिनेष्वपि द्रष्टव्यं 'प्रतिमा' कायोत्सर्ग 'ठाइ'त्ति तिष्ठति धातूनामनेकार्थत्वात्करोतीत्यर्थः, किम्प्रमाणामित्याह-एका रात्रिः परिमाणमस्या इत्येकरात्रिकी-सार्वरात्रिकी तां यस्तस्य प्रतिमा भवतीति शेषः ॥९८५॥ शेषदिनेषु यादृशोऽसौ भवति तद्दर्शयितुमाह-'असिणाणे'त्यादि, अस्नानः-स्नानपरिवर्जकः विकटे-प्रकटे प्रकाशे दिवा न रात्रावित्यर्थः दिवापि वा प्रकाशदेशे भुङ्क्ते-अशनाद्यभ्यवहरतीति विकटभोजी, पूर्व किल रात्रिभोजनेऽनियम आसीत् तदर्थमिदमुक्तं, 'मउलियडोति अबद्धपरिधानकच्छ इत्यर्थः, तथा दिवसे-दिवा ब्रह्म चरतीत्येवंशीलो दिवसब्रह्मचारी, रितिंति रात्रौ किमत आह-परिमाणंस्त्रीणां तद्दोगानां वा प्रमाणं कृतं येन स परिमाणकृतः, कदत्याह-प्रतिमावर्जेषु-कायोत्सर्गरहितेष्वपर्वस्त्वित्यर्थः दिवसेषु-दिनेष्विति M॥९८६ ॥ अथ कायोत्सर्गस्थितो यच्चिन्तयति तदाह-'झायई'त्यादि, ध्यायति-चिन्तयति प्रतिमायां कायोत्सर्गस्थितः-अवस्थितस्त्रि ॥२९४॥ Jain Education Intem For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy