________________
ष्ठानं विधेयं, एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमादशकोक्तं सर्वमप्यनुष्ठानं कार्यमिति ॥ ९८१ ॥ अथ दर्शनप्रतिमास्वरूपनिरूपणायाह – 'पसमेत्यादि, सम्यग्दर्शनं सम्यक्त्वं प्रथमा दर्शनप्रतिमा भवतीति सम्बन्धः, कथम्भूतं सम्यग्दर्शनमित्याह - प्रशमादिगुणविशिष्टं - प्रशमसंवेग निर्वेदानुकम्पास्तिक्यलक्षणैः पञ्चभिर्गुणैर्विशिष्टं - अन्वितं तथा कुप्रहश्च तत्त्वं प्रति शास्त्रबाधितत्वेन कुत्सितोऽभिनिवेशः शङ्कादयश्च शङ्काकाङ्क्षाविचिकित्सामिध्यादृष्टिप्रशंसा तत्संस्तवरूपाः पञ्च सम्यक्त्वातीचाराः कुग्रहशङ्कादयस्त एव शल्यते-अनेकार्थत्वाद्वाध्यते जन्तुरेभिरिति शल्यानि तैः परिहीनं-रहितं, अत एव अनघं - निर्दोषं, अयमत्र भावार्थ:- सम्यग्दर्शनस्य कुमहशङ्कादिशल्यरहितस्याणुत्रतादिगुणविकलस्य योऽभ्युपगमः सा दर्शनप्रतिमेति, सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजाभियोगाद्याकारषट्कवर्जितत्वेन यथावत्सम्यग्दर्शनाचारविशेषपरिपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथा उपासकदशासु एकमासं प्रथमायाः प्रतिमायाः पालनेन द्वौ मासौ द्वितीयायाः प्रतिमायाः पालनेन एवं यावदेकादश मासानेकादश्याः पालनेन पञ्च साधनि वर्षाण्यर्थतः प्रतिपादितानीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् * एवं दर्शन (व्रत) प्रतिमादिष्वपि यथायोगं भावना कार्या ॥ ९८२ ॥ अथ गाथाद्वयेन व्रतसामायिक पौषधप्रतिमात्रयमाह - 'बीये' त्यादि, अणुव्रतानि - स्थूलप्राणातिपात विरमणादीनि उपलक्षणत्वाद् गुणव्रतानि शिक्षाव्रतानि च वधबन्धाद्यतिचाररहितानि निरपवादानि च धारयतः सम्यक्परिपालयतो द्वितीया व्रतप्रतिमा भवति, सूत्रे च प्रतिमाप्रतिमावतोरभेदोपचारादित्थं निर्देशः, तथा तृतीयायां - सामायिकप्रतिमायां सामायिकं - सावद्ययोगपरिवर्जन निरवद्ययोगा सेवनस्वभावं कृतं विहितं देशतो येन स सामायिककृतः, आहिताम्यादिदर्शनात् कान्तस्योतरपदत्वं, इदमुक्तं भवति - अप्रतिपन्नपौषधस्य दर्शनत्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं तृतीया प्रतिमेति, तथा चतुर्थी
*36*9
Jain Education International
For Private & Personal Use Only
के
www.jainelibrary.org