________________
प्रव० सा
रोद्धारे तत्त्वज्ञा
नवि०
॥ २९३ ॥
Jain Education In
दर्शनं च - सम्यक्त्वं व्रतानि च - अणुव्रतादीनि सामायिकं च - सावद्यानवद्ययोगपरिवर्जनासेवनस्वरूपं पौषधं च - अष्टमीचतुर्दश्यादि| पर्वदिनानुष्ठेयोऽनुष्ठानविशेषः प्रतिमा च- कायोत्सर्गः अब्रह्म च - अब्रह्मचर्यं सचित्तं च-सचेतनद्रव्यं इति समाहारद्वन्द्वः तत एतस्मिन् विषये प्रतिमेति प्रस्तावादव सेयं, अत्र च दर्शनादिषु पञ्चसु विधिद्वारेण प्रतिमाभिग्रहः अब्रह्मसचित्तयोस्तु प्रतिषेधमुखेनेति, तथा आरम्भश्च - स्वयं कृष्यादिकरणं प्रेषश्च-प्रेषणं परेषां पापकर्मसु व्यापारणं उद्दिष्टं च तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृतं पक्कं वा यो वर्जयति परिहरति स आरम्भप्रैषोद्दिष्टवर्जकः, प्रतिमेति प्रकृतमेव, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिभावतोरभेदोपचाराप्रतिमावतो निर्देशः कृतः, एवमुत्तरत्रापि, तथा श्रमणः - साधुः स इव यः स श्रमणभूतः, भूतशब्दस्योपमानार्थत्वात्, चः समुच्चये, आसां च दर्शनप्रतिमा व्रतप्रतिमेत्यादिरूपोऽभिलापः कार्यः, एता एकादश श्राद्धानां - उपासकानां प्रतिमाः - प्रतिज्ञा अभिग्रहाः श्राद्धप्रतिमा इति ॥ ९८० ॥ अथैतासामेव प्रतिमाणां प्रत्येकं स्वरूपं प्रतिपिपादयिषुः प्रथमं तावत् कालमानं सामान्यस्वरूपं चाह - 'जस्संखे' त्यादि, यत्सङ्ख्या - यावत्सङ्ख्यामाना प्रथमद्वितीयादिकेत्यर्थः प्रतिमा तस्यां मासा अपि तत्सङ्ख्या:- तावत्प्रमाणा भवन्ति, अयमर्थ:- प्रथमायां प्रतिमायामेको मासः कालमानं द्वितीयायां द्वौ मासौ तृतीयायां त्रयो मासा यावदेकादश्यां प्रतिमायामेकादश मासा इति एतच कालमानं यद्यपि दशाश्रुतस्कन्धादिषु साक्षान्नोपलभ्यते तथाऽप्युपासकदशासु प्रतिमाकारिणामानन्दादिश्रमणोपासकानां सार्धवर्षप चकलक्षणं प्रतिमैकादशप्रमाणं प्रतिपादितमस्ति तच्च पूर्वोक्तयैव एकादिकयैकोत्तरया वृद्ध्या सङ्गच्छत इति, तथा उत्तरोत्तरास्वपि तासु प्रतिमासु क्रियमाणासु पूर्वपूर्वप्रतिमाप्रतिपादिताः सर्वा अपि क्रिया-अनुष्ठानविशेषरूपाः कर्तव्या एव, तुशब्द एवकारार्थः, इदमत्र तात्पर्यम् - द्वितीयायां प्रतिमायां प्रथमप्रतिमोक्तमनुष्ठानं निरवशेषमपि कर्तव्यं, तृतीयायां तु प्रतिमायां प्रथमद्वितीयप्रतिमाद्वयोक्तमप्यनु
For Private & Personal Use Only
*%%%%%
१५३ श्राद्धप्रतिमाः
गा. ९८०९९४
॥ २९३ ॥
Bodwww.jainelibrary.org