SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 4S4%A4%AA-34 प्राप्यते भवोदधेः परकूलमेमिरिति चरणानि-चारित्राणि, तानि च पञ्च सामायिक पदैकदेशेऽपि पदसमुदायोपचारात् छेदोपस्थापनिक परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं चेति, तत्र समो-रागद्वेषरहितत्वाद् अयो-गमनं समायः, एष चान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात् , समायेन निर्वृत्तं समाये वा भवं सामायिकं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एव सामायिक, विनयादेराकृतिगणतया स्वार्थे इकण् , तच्च सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि छेदादिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात्सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालभावि इत्वरं, इदं च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितमहाव्रतस्य शैक्षस्य विज्ञेयं, अत्र जन्मनि यावजीवितकथाऽस्त्यात्मनस्तावत्कालभावि यावत्कथं तदेव यावत्क|थिकं आभववर्तीत्यर्थः, एतच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च मुनीनामवसेयं, तेषामुपस्थापनाया | अभावात् , ननु चेत्वरमपि सामायिकं करोमि भदंत! सामायिकं यावज्जीव' इत्येवं व्रतग्रहणकाले यावदायुरागृहीतं तत उपस्थापनाकाले | तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननु प्रागेवोक्तं सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सावद्ययोगविरतिसद्भा| वात् , केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारित्रावाप्तौ न भङ्गमङ्गीकरोति तथा इत्वरमपि सामायिक विशुद्धिरूपच्छेदोपस्थापनावाप्तौ, | यदि हि प्रव्रज्या परित्यज्यते तर्हि तद्भङ्ग आपद्यते न तु तस्यैव विशुद्धिविशेषावाप्ताविति, तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं तदेव वा विद्यते यत्र तच्छेदोपस्थापनिकं, तञ्च द्विधा-सातिचारं निरति Jain Education remona For Private 3 Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy