SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ व ठिष्टपरिणामेनैकेनोलं-युक्तमिदं नैव सकलानि फलान्यव्यवहमस्यः शास्वामेवैको कर्तयित्वा % % % % % खादुफलानीत्यैकमत्ये सति तन्मध्ये क्लिष्टपरिणामेनैकेनोक्तं-युक्तमिदं केवलमस्मिन्ननोकहे दुरारोहे समारोहतां जीवितव्यस्यापि संशयः, | तस्मात्तीक्ष्णधारैः कुठारैरभुं मूलत एव कर्तयित्वा तिर्यक्प्रपात्य सुखेनैव सकलानि फलान्यभ्यवहरामः, एष एवंजातीयः कृष्णलेश्यापरिणाम:, द्वितीयेन तु किञ्चित्सशूकेनोक्तं-किमस्माकमेतेनातिमहता पादपेन छिन्नेन ?, महीयसीमस्य शाखामेवैकां कर्तयित्वा फलान्याखादयामः, एवंप्रकारो नीललेझ्यापरिणामः, तृतीयः पुनः प्राह-किमेतया महाशाखया छिन्नया?, तदेकदेशभूताः प्रशाखा एव कर्तयानः, इत्येवंविधः कापोतलेश्यापरिणामः, चतुर्थश्चोवाच-किमाभिरपि वराकीभिः कर्तिताभिः ?, तत्पर्यन्तवर्तिनः कांश्चिद्गुच्छानेव छिंग्रः, एष तैजसलेश्यापरिणामः, पञ्चमः पुनः प्रोवाच-गुच्छैरपि किं नश्छिन्नैः ?, तन्मध्यात्सुपक्कानि भक्षणोचितानि कानिचित्फलाशान्येव गृहीम इत्यसौ पद्मलेश्यापरिणामः, षष्ठस्तु बभाषे-किं तैरपि त्रोटितैः ?, यावत्प्रमाणैः प्रयोजनमस्माकं तावत्प्रमाणानि फला न्यधस्तादपि पतितान्यस्य विटपिनः प्राप्यन्ते, तद्वयममीभिरेव प्राणवृत्ति विध्मः किमुन्मूलनादिनाऽस्य शाखिनः खेदेन ? इत्ययं शुक्ललेश्यापरिणाम इति ॥ प्रामघातकदृष्टान्तस्तु कस्मिंश्चिद् ग्रामे धनधान्यादिलुब्धैः षनिस्तस्करस्वामिभिर्मिलित्वा धाटी प्रक्षिप्ता, तत्रैके| नोक्तं यत्किमपि द्विपदचतुष्पदपुरुषस्त्रीबालवृद्धादिकं पश्यथ तत्सर्व मारयत ?, इत्येवंजातीयः कृष्णलेश्यापरिणामः, द्वितीयस्तु नीलले श्यापरिणामवर्ती बभाषे-मानुषाण्येव मारयत किं तिर्यग्भिरिति, तृतीयः पुनः कापोतलेश्यायुक्तो जगाद-पुरुषानेव व्यापादयत ?, | किं स्त्रीभिरिति, चतुर्थस्तु तैजसलेश्यापरिणामान्वितः प्राह-पुरुषेष्वपि सप्रहरणानेव निशुम्भत, किं निष्प्रहरणैरपि ?, पञ्चमः पुनः पद्मलेश्यापरिणामसम्पन्नः प्रोवाच-सायुधेष्वपि युध्यमानानेव विनाशयत किमन्यैर्निरपराधैरिति, षष्ठस्तु शुक्ललेश्यापरिणामपरिगतः प्रतिपादयति स्म-अहो महदसमजसं यदेकं तावद् द्रव्यमपहरथ अपरं च वराकमेनं जनं विनाशयथ, तस्माद्यद्यपि द्रव्यमपहरथ तथापि % 82%2.2 Jain Education International For Private & Personal Use Only iww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy