SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० PRECRELATE त्रैकाल्यवृत्तवि वृत्तिः ॥२९॥ |क्तत्वेन शरीरविरहितत्वान्न विद्यते इन्द्रियं-स्पर्शनादि येषां ते अनिन्द्रियाः-सिद्धाः । तथा षट् कायाः पृथ्वीजलानलवायुवनस्पतिसभेदात् , पृथ्वीकायजलकायानलकायवायुकायवनस्पतिकायत्रसकायलक्षणाः षट् काया इत्यर्थः, तत्र पृथिवी-काठिन्यादिलक्षणा सैव कायः-शरीरं येषां ते पृथिवीकायाः जलं-पानीयं तदेव कायः-शरीरं येषां ते जलकायाः, अनलो-वह्निः स एव कायः-शरीरं येषां तेऽनलकायाः, वायु:-पवनः स एव काय:-शरीरं येषां ते वायुकायाः, वनस्पतिः-लतादिरूपः स एव काय:-शरीरं येषां ते वनस्पतिकायाः, त्रसनशीलालसाः-चलनधर्माणः कायाः-शरीराणि येषां ते त्रसकायाः॥९७५॥ अथ लेश्याषट्कमस्तिकायपञ्चकं चाह'छल्लेसे'त्यादि, लिश्यते-श्लिष्यते कर्मणा सह जीवो यकाभिस्ता लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्लवर्णद्रव्यसाहाय्याज्जीवस्याशुभाः शुभाश्च परिणामविशेषाः, उक्तं च-'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥ कृष्णादिद्रव्याणि च केचिद् ‘योगपरिणामो लेश्या' इतिवचनाद्योगान्तर्गतद्रव्याण्याहुः, अन्ये तु 'सकलकर्मप्रकृतिनिःस्यन्दरूपाणि अपरे पुनः 'कार्मणशरीरवत्पृथगेव कर्माष्टकात्कार्मणवर्गणानिष्पन्नानि कृष्णादिद्रव्याणी'ति प्रतिपादयन्ति, तत्त्वं तु तीर्थकृतो विदन्तीति, एताश्च परिणामविशेषात्मिका लेश्याः षड् भवन्ति, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'सिय'त्ति सितलेश्या शुक्ललेश्येत्यर्थः, तत्र कृष्णद्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्येत्यर्थः, एवं नीललेश्येत्यादिपदेष्वपि भावनीयं, तासु चाद्यास्तिस्रोऽशुभाः अपरास्तु तिस्रः शुभाः, एतासां च विशेषतः स्वरूपनिरूपणार्थ जम्बूखादकषट्पुरुषीदृष्टान्तो ग्रामघातकदृष्टान्तश्चोच्यते, तथाहि-केचित् कस्मिंश्चित्कानने क्षुत्क्षामकुक्षयः षट् पुरुषाः सुपरिपक्कसरसफलभरावनमितसकलशाख कल्पशाखिसदृक्षमेकं जम्बूवृक्षमद्राक्षुः, ततः सर्वैरपि प्रमुदितैः प्रोक्तं-अहोऽवसरप्राप्तमस्य दर्शनं अपनयामो बुभुक्षा भक्षयामः स्वेच्छयाऽतुच्छान्यस्य ॥२२ ९०॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy