SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सादयः षट् कायाः-पृथिवीकायादयः, षट् च लेश्या:-कृष्णादयः, अपरे च पञ्चास्तिकाया-धर्मास्तिकायादयः, तथा पञ्चशब्दस्य प्रत्येक मत्रापि योजनात्पञ्च व्रतभेदाः-प्राणिवधविरमणादयः, पञ्च समितिभेदा-ईर्यासमित्यादयः, पञ्च गतिभेदा-नरकगत्यादयः, पञ्च ज्ञानभेदाः-मतिज्ञानादयः, पञ्च चारित्रभेदाः-सामायिकादयः, इत्येते पूर्वोक्ताः सर्वेऽपि पदार्थास्त्रिभुवनमहितैः-त्रिलोकार्चितैरर्हद्भिः-तीर्थकरैरीशैः स्वाभाविककर्मक्षयजन्यसुरविरचितचतुस्त्रिंशदतिशयस्वरूपपरमैश्वर्योपशोमितैर्मोक्षमूलं-निर्वाणकारणं प्रोक्तं-उपदिष्टं, अतो यः । पुमान् मतिमान्-अवेकविवेककलित एतान् प्रत्येति-स्वरूपतोऽवगच्छति श्रद्दधाति-इदमेव तत्त्वमित्यात्मनो रोचयति स्पृशति च-यथा| यथं सम्यगासेवते स वै स्फुटं 'शुद्धदृष्टिः' शुद्धा-मिथ्यात्वमलानाविला दृष्टिः-सम्यक्त्वं यस्य स शुद्धदृष्टिरिति ॥ ९७१ ॥ अथैनं वृत्तं व्याचिख्यासुः कालत्रिकं प्रतिपादयन्नाह–'एये'त्यादि, एतस्य-पूर्वोक्तस्य त्रैकाल्यमित्यादेः स्रग्धरावृत्तस्येदं-वक्ष्यमाणं विवरणंव्याख्यानं विज्ञेयमिति शेषः, तत्र त्रैकाल्यमतीतवर्तमानाभ्यां भविष्यधुक्ताभ्यां भवति, अतीतवर्तमानभविष्यल्लक्षणास्त्रयः काला इत्यर्थः, तत्रातिशयेन इतो-गतोऽतीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, वर्तत इति वर्तमानः-साम्प्रतमुत्पन्नः सर्वसूक्ष्मनिरंशसमयमात्रमान इति भावः, भविष्यतीति भविष्यन्-वर्तमानत्वं न प्राप्तोऽनागत इति हृदयं, द्रव्यषट्कं पुनरिद-वक्ष्यमाणं ॥ ९७२ ॥ तदेवाह-'धम्मेत्यादि, धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायकालपुद्गलास्तिकायजीवास्तिकायस्वरूपाणि षड् द्रव्याणि, तत्र जीवानां पुद्गलानां च खत एव गतिक्रियापरिणतानां तत्स्वभावधरणात्-तत्स्वभावपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां कायः-सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, सकललोकव्यापी असंख्येयप्रदेशात्मकोऽमूर्तो द्रव्यविशेष इत्यर्थः । जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावेऽधरणादधर्मः स चासावस्तिकायश्चाधर्मास्तिकायः, किमुक्तं भवति ?-जीवपुद्गलानां स्थितिपरिणामपरिणतानां तत्परि-| Jan Education Intematon For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy