SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० त्रैकाल्यवृत्तविवृत्तिः पाना ॥२८९॥ जाणामोपष्टम्भकोऽमूर्तो लोकव्यापी असंख्येयप्रदेशात्मकोऽधर्मास्तिकायः, लोकमात्रत्वं चानयोरेतदवष्टम्भकाकाशदेशस्यैव लोकत्वात् , अलो कव्यापित्वे त्वनयोर्जीवपुद्गलानामपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकत्वप्राप्तेरिति । तथा आङिति मर्यादया तत्संयोगेऽपि स्वकीयस्खकीयखरूपेऽवस्थानतः सर्वथा तत्स्वरूपाप्राप्तिलक्षणया काशन्ते-स्वभावलाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशं यदा त्वमिविधावाङ् तदाऽऽङिति सर्वभावाभिव्याप्त्या काशते-प्रतिभासते इत्याकाशं तच्च तदस्तिकायश्चाकाशास्तिकायो, लोकालोकव्यापी अन|न्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः। तथा कलन-समस्तवस्तुस्तोमस्य सङ्ख्यानमिति कालः, अथवा कलयन्ति-समयोऽस्यानेन रूपेणोत्पन्न| स्यावलिका मुहूर्तादि वा इत्यादिप्रकारेण सर्वमपि सचेतनाचेतनं वस्त्ववगच्छन्ति केवल्यादयोऽनेनेति काल:-समयावलिकारूपो द्रव्यविशेषः । तथा पूरणगलनधर्माणः पुद्गला:-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, एते हि कुतश्चिद् द्रव्याद्गलन्ति-वियुज्यन्ते किञ्चित्तु द्रव्यं स्वसंयोगतः पूरयन्ति-पुष्टं कुर्वन्ति, पुद्गलाश्च तेऽस्तिकायश्च पुद्गलास्तिकायः। तथा जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवास्ते च तेऽस्तिकायश्च जीवास्तिकायः, प्रत्येकमसङ्खयेयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः, अत्र च जीवपुद्गलानां गत्यन्यथानुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथानुपपत्तेरधर्मास्तिकायस्य जीवादिपदार्थानामाधारान्यथानुपपत्तेराकाशास्तिकायस्य बकुला| शोकचम्पकादिपुष्पफलप्रदाननैयत्यान्यथाऽनुपपत्तेः कालस्य घटादिकार्यान्यथानुपपत्तेः पुद्गलास्तिकायस्य प्रतिप्राणि स्वसंवेदनसिद्धचैतन्यान्य| थानुपपत्तेश्च जीवास्तिकायस्य सत्त्वं समवसेयमिति ॥९७३ ॥ अथ नव पदान्याह-'जीवे'त्यादि, जीवाः-सुखदुःखोपयोगलक्षणाः अ|जीवा:-तद्विपरीता धर्मास्तिकायादयः पुण्यं-शुभप्रकृतिरूपं कर्म पापं-तद्विपरीतं कर्मैव आश्रवति-आगच्छति कर्मानेनेत्याश्रवः शुभाशु| भकर्मोपादानहेतुः हिंसादिः संवरणं संवरो-गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा-विपाकाचपसो वा कर्मणां देशतः क्षपणं बन्धो ॥२८९॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy