________________
च सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथापि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमेन सम्बद्धा इत्यचित्तैव तेषां योनिः, एकद्वित्रिचतुरिन्द्रियसम्मूछिमतिर्यग्नराणां त्रिविधाऽपि योनिः, जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता अचित्ते काष्ठे समुत्पद्यमानानां घुणादीनामचित्ता सचित्ताचित्तेषु काष्ठगोक्षतादिषु घुणकृम्यादीनामेव मिश्रा, गर्भजतिर्यग्नराणां पुनर्मिश्रा, ये हि शुक्रमिश्राः शोणितपुद्गला योन्याऽऽत्मसात्कृतास्ते सचित्ताः, अन्ये त्वचित्ता इति । तथा संवृतविवृतोभयभेदादपि त्रिधा योनिः, तत्र नारकदेवैकेन्द्रियाणां संवृता योनिः, नारकोत्पत्तिस्थानानां निष्कुटानां संवृतगवाक्षकल्पत्वात् देवानां तु देवशयनीयेषु देवदूष्याभ्यन्तरे संबृतस्वरूपे समुत्पादात् एकेन्द्रियाणां तु योनेः स्पष्टमनुपलक्ष्यमाणत्वात् , द्वित्रिचतुरिन्द्रियसम्मूछिमतिर्यग्नराणां विवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् , गर्भजतिर्यनराणां तूभयरूपा योनिः, गर्भस्य संवृतविवृतरूपत्वात् , गर्भो झन्तः स्वरूपतो नोपलभ्यते बहिः पुनरुदरवृद्ध्यादिना समुपलक्ष्यते इति । अथ मनुष्ययोनिगतो विशेषः प्रतिपाद्यते-यथा मनुष्याणां योनिस्त्रिधा कूर्मोन्नता शङ्खावर्ता वंशीपत्रा च, कूर्मपृष्ठमिवोन्नता कूर्मोन्नता शङ्खस्येवावर्तो यस्यां सा शङ्कावर्ता संयुक्तवंशीपत्रद्वयाकारा वंशीपत्रा, तत्र कूर्मोन्नतायां | योनौ तीर्थकृच्चक्रवर्तिवासुदेवबलदेवा उत्पद्यन्ते, वंशीपत्रायां सामान्यमनुष्या जायन्ते, शङ्खावर्ता तु खीरत्नस्यैव भवति, तस्यां च गर्भ उत्पन्नोऽपि न निष्पत्तिं याति, प्रबलतमकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवादः ॥ ९७०॥१५१ ॥ सम्प्रति 'तिक्कालाई वि तत्थ विवरण ति द्विपचाशदधिकशततमं द्वारमाह
त्रैकाल्यं ३ द्रव्यषट्कं ६ नवपदसहितं जीवषट्कायलेश्याः ६, पञ्चान्ये चास्तिकाया ५ व्रत ५ स. मिति ५ गति ५ ज्ञान ५ चारित्र ५ भेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहद्भिरीशैः,
Jain Education International
For Private Personal Use Only
www.jainelibrary.org