________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥२८७॥
तिलक्षसङ्ख्या एव योनयो भवन्ति, न हीनाधिकाः ॥ ९६८ ॥ ९६९ ॥ एतदेवाह-'समें'त्यादि, समैः-सदृशैर्वर्णादिभि:-वर्णगन्ध- ८४ यो रसस्प ः समेता-युक्ताः समानवर्णगन्धरसस्पर्शा इत्यर्थः, बहवोऽपि-प्रभूता अपि योनिभेदलक्षा हु:-निश्चितमिह एकयोनिजातिग्रहणेन || निलक्षा गृह्यन्ते, कुतः?-सामान्यात्-व्यक्तिभेदतः प्राभूत्येऽपि समानवर्णगन्धरसस्पर्शसद्भावेन सादृश्यादिति । ननु योनिकुलयोः कः प्रतिवि- गा.९९८शेषः ?, उच्यते, योनिर्जीवानामुत्पत्तिस्थानं, यथा वृश्चिकादेर्गोमयादि, कुलानि तु योनिप्रभवानि, तथाहि-एकस्यामेव योनावनेकानि |कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, यदिवा तस्यैव वृश्चिकादेोमयाघेकयोन्युत्पन्नस्यापि कपिलर|क्तादिवर्णभेदादनेकविधानि कुलानीति । अथ प्रज्ञापनाद्यनुसारेण योनिविषयोऽपरोऽपि विशेषः कश्चिदुपदर्श्यते-यथा शीतोष्णमिश्रभेदात् त्रिधा योनिः, तत्र नारकाणां शीता उष्णा च, आद्यासु तिसृषूष्णवेदनासु पृथिवीषु शीता, चतुर्ध्या बहुषूपरितनेषु उष्णवेदनेषु नरकावासेषु शीता अधः स्तोकेषु शीतवेदनेषु उष्णा, पञ्चम्यां बहुषु शीतवेदनेषु उष्णा स्तोकेषु उष्णवेदनेषु शीता, षष्ठीसप्तम्योश्च शीत| वेदनयो रकाणां योनिरुष्णैव, शीतयोनिकानां हि उष्णवेदनाऽभ्यधिका भवति उष्णयोनिकानां तु शीतवेदना, नारकाणां च यथा वेद-1 नाप्राचुर्यमापद्यते प्रायः सर्व तथैव परिणमति, ततो वेदनाक्रमप्रातिकूल्येन योनिक्रमसम्भवः, सुराणां गर्भजतिर्यकराणां च शीतोष्णरूपोभयस्वभावा योनिः, नैकान्तेन शीतं नाप्युष्णं किन्त्वनुष्णाशीतं तदुपपातक्षेत्रमिति भावः, पृथिव्यम्बुवायुवनस्पतिद्वित्रिचतुरिन्द्रिय-Ix | सम्मूछिमतिर्यक्पञ्चेन्द्रियसम्मूछिममनुष्याणामुपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिधा योनिः, केषाश्चिच्छीता केषाश्चिदुष्णा केषाञ्चिन्मिश्रेति, तेजस्कायिकानामुष्णैव योनिः, उष्णस्पर्शपरिणत एव क्षेत्रे तेषामुत्पत्तेः । तथा सचित्ता
IDI||२८७॥ चित्तमिश्रभेदादपि त्रिधा योनिः, तत्र नारकाणां देवानां चाचित्ता, तदुपपातक्षेत्रस्य केनापि जन्तुनाऽपरिगृहीतत्वेनाचेतनत्वात् , यद्यपि
Jain Education International
For Private & Personel Use Only
Www.jainelibrary.org