SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ MESSACROSRUSSSS | मिकं सम्यक्त्वमेषां न लभ्यते इति कार्मप्रन्थिकाः, सैद्धान्तिकास्तु मन्यन्ते-क्षायोपशमिकसम्यक्त्वसंयुक्ता अपि बद्धायुष्का अमी केचिदेतेपूत्पद्यन्ते इति पारभविकमपि क्षायोपशमिकं सम्यक्त्वममीपां लभ्यते, असङ्ख्येयवर्षायुष्कतिरश्चां पुनस्त्रीण्यपि सम्यक्त्वान्यसङ्ख्येयवर्षायुष्कमनुष्यवद्वाच्यानि, शेषाणामाद्यपृथिवीत्रयव्यतिरिक्तानां नारकाणां पङ्कप्रभाद्यधस्तनपृथिवीचतुष्टयनारकाणामित्यर्थः 'तिरियत्थीणं च'त्ति असङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिरश्च तत् स्त्रीणां च, तथा त्रिविधदेवानां-भवनपतिव्यन्तरज्योतिष्कलक्षणानां नास्त्येव | क्षायिकं सम्यक्त्वं, क्षायिकं हि सम्यक्त्वमेतेषु ताद्भविकं तावन्न भवति, सङ्ख्येयवर्षायुष्कमनुष्यस्यैव क्षायिकसम्यक्त्वारम्भकत्वात् , पारभविकमपि न भवति क्षायिकसम्यग्दृष्टेरेतेष्वनुत्पत्तेः, औपशमिकक्षायोपशमिके तु भवत इति, 'सम्म अन्नेसिं चेव जीवाणं'ति | अन्येषां पुनर्जीवानां सम्यक्त्वमेव नास्ति चः पुनरर्थे, एवोऽवधारणे भिन्नक्रमः स च योजित एव, एतदुक्तं भवति-एकद्वित्रिचतुरिन्द्रि| यासंज्ञिपञ्चेन्द्रियाणां तद्भवं परभवं वा अपेक्ष्य प्रस्तुतसम्यक्त्वत्रयमध्य एकमपि न सम्भवति, सास्वादनसम्यक्त्वं पुनर्बादरपृथिव्यम्बु| वनस्पतिद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियेष्वपर्याप्तावस्थायां पारभविकं, पर्याप्तसंज्ञिपञ्चेन्द्रियेषु तु ताद्भविकमवाप्यते, सूक्ष्मैकेन्द्रियबादरतेजोवायुषु पुनः सम्यक्त्वलेशवतामप्युत्पादाभावात् सास्वादनं नास्तीत्येष कार्मप्रन्थिकामिप्रायः, सूत्राभिप्रायेण तु पृथिव्यायेकेन्द्रियाणां सास्वादनसम्यक्त्वं नास्ति, यदुक्तं प्रज्ञापनायां-"पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो सम्मदिट्ठी मिच्छादिट्टी नो सम्मामिच्छदिट्ठी, एवं जाव वणप्फइकाइया” इति ॥ ९६१ ॥ ९६२ ॥ १४९ ॥ इदानीं 'कुलकोडीणं संखा जीवाणं'ति पश्चाशदधिकशततमं द्वारमाह बारस सत्त य तिन्नि य सत्त य कुलकोडिसयसहस्साई । नेया पुढविदगागणिवाऊणं चेव परि in Education International For Private Personal use only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy