SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रध० सा रोद्धारे तत्त्वज्ञा कुलकोटीसंख्या गा.९६३९६७ नवि० ॥२८६॥ - संखा ॥९६३ ॥ कुलकोडिसयसहस्सा सत्तट्ट य नव य अहवीसं च । बेइंदियतेइंदियचउरिंदियहरियकायाणं ॥ ९६४ ॥ अद्धत्तेरस बारस दस दस नव चेव सयसहस्साई । जलयरपक्खिचउप्पयउरभुयसप्पाण कुलसंखा ॥ ९६५॥ छच्चीसा पणवीसा सुरनेरइयाण सयसहस्साई । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥९६६ ॥ एगा कोडाकोडी सत्ताणउई भवे सयसहस्सा। पन्नासं च सहस्सा कुलकोडीणं मुणेयवा ॥ ९६७॥ 'बारसे'त्यादिगाथापञ्चकम् , पृथिव्युदकाग्निवायूनामेव कुलान्याश्रित्य परिसङ्ख्या यथाक्रमं ज्ञेया, तद्यथा-द्वादश कुलकोटिशतसहस्राणिलक्षाः पृथिवीकायिकानां सप्त उदकजीवानां त्रीण्यग्निकायिकानां वायूनां पुनः सप्तैव कुलकोटिशतसहस्राणि ॥९६३।। 'कुले'त्यादि, अत्रापि | यथासयेन योजना, द्वीन्द्रियाणां सप्त कुलकोटिशतसहस्राणि अष्टौ त्रीन्द्रियाणां नव चतुरिन्द्रियाणां अष्टाविंशतिहरितकायिकानां-समस्तवनस्पतिकायिकानाम् ॥९६४॥ 'अद्धे'त्यादि, अत्रापि यथाक्रमं पद्घटना, तत्र जले चरन्ति-पर्यटन्तीति जलचरा:-मत्स्यमकरादयः तेषामर्धत्रयोदश कुलकोटिशतसहस्राणि, सार्धा द्वादश कुलकोटिलक्षा इत्यर्थः, पक्षिणां-केकिकाकादीनां द्वादश चतुष्पदानां-गजगर्दभादीनां दश उरःपरिसर्पाणां-भुजगादीनां दश भुजपरिसणां-गोधानकुलादीनां नव कुलकोटिलक्षाणि भवन्ति ॥९६५।। 'छवीसे'त्यादि, सर्वेषां भवनपत्यादिसुराणां षड्विंशतिः कुलकोटिलक्षाणि नारकाणां तु पञ्चविंशतिः मनुष्याणां पुनर्द्वादश कुलकोटीनां शतसहस्राणि भवन्तीति | ॥९६६॥ अथ पूर्वोक्तानामेव कुलानां सर्वसङ्ख्यामाह-एगे'त्यादि, सर्वसङ्ख्यया एका कुलकोटीकोटिः सप्तनवतिः कुलकोटीनां शतसहस्राणि पञ्चाशच सहस्राः कुलकोटीनां ज्ञातव्याः ॥९६७॥१५०॥ इदानीं 'जोणिलक्ख चुलसी'त्येकपञ्चाशदधिकशततमं द्वारमाह - | ॥२८ ॥ Jain Educatio n al For Private Personal Use Only ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy