________________
प्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यङ्गत्वख्यापनार्थ ॥ ९५८ ॥ सङ्केपरुचिमाह-'अणे'त्यादि, अनभिगृहीता-अनङ्गीकृता कुत्सिता दृष्टिः-सौगतादिदर्शनं येन स तथा, अविशारदः-अकुशलः प्रवचने-जिनप्रणीते शेषेषु च-कपिलादिप्रणीतेषु प्रवचनेषु अनमिगृहीतो-न | विद्यतेऽभीत्याभिमुख्येनोपादेयतया गृहीतं-ग्रणं ज्ञानमस्येत्यनभिगृहीतः, पूर्वमनमिगृहीतकुदृष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेन
तु परदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, इदमत्र तात्पर्य-उक्तविशेषणो यः सङ्केपेणैव चिलातीपुत्रवदुपशमादिपदत्रयेण तत्त्व| रुचिमवाप्नोति स सङ्केपरुचिरुच्यते इति ।। ९५९ ॥ धर्मरुचिमाह-'जो'इत्यादि, यः खलु जीवोऽस्तिकायानां-धर्मास्तिकायादीनां धर्मगत्युपष्टम्भकत्वादिरूपं स्वभावं श्रुतधर्मम्-अङ्गप्रविष्टाद्यागमस्वरूपं चारित्रधर्म च-सामायिकादिकं जिनाभिहितं-तीर्थकदुक्तं श्रद्दधातितथेति प्रतिपद्यते स धर्मरुचिरिति ज्ञातव्यः, इह च शिष्यमतिव्युत्पादनार्थमित्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा फचित्केषाश्चिदन्तर्भावोऽस्त्येवेति ।। ९६० ॥ अथ पूर्वोक्तान्येव क्षायिकादीनि त्रीणि सम्यक्त्वानि प्रसङ्गतो नारकादिजीवेषु चिन्तयन्नाह-'आई'त्यादिगाथाद्वयं, आद्यासु तिसृषु पृथिवीषु-रत्नप्रभाशर्कराप्रभावालुकाप्रभासु 'खयोवसमवेयगं'ति सूचकत्वात् सूत्रस्य क्षायिकमौपशमिकं वेदकं च सम्यक्त्वं भवति, इह च वेद्यन्ते-अनुभूयन्ते शुद्धसम्यक्त्वपुजपुद्गला अस्मिन्निति वेदकंक्षायोपशमिकं सम्यक्त्वमुच्यते, औपशमिकक्षायिकसम्यक्त्वयोः पुद्गलवेदनस्य सर्वथैवाभावात् , यत्पुनः क्षप्यमाणसम्यक्त्वपुखपुद्गलचरमग्रासलक्षणं वेदकसम्यक्त्वं पूर्वमुक्तं तदिह पृथग् न विवक्षितं, पुद्गलवेदनस्य समानत्वेन क्षायोपशमिकसम्यक्त्व एव तस्यान्तर्भावात् , ||
ततोऽयमर्थः-आद्यनरकपृथिवीत्रयवर्तिनारकाणां क्षायिकौपशमिकक्षायोपशमिकानि त्रीण्यपि सम्यक्त्वानि सम्भवन्तीति, तथाहि-योऽ-| Mनादिमिथ्यादृष्टिारकः प्रथमं सम्यक्त्वमवाप्नोति तस्यान्तरकरणकालेऽन्तर्मुहूर्तमौपशमिकं सम्यक्त्वं भवति, औपशमिकसम्यक्त्वाच्चानन्तरं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org