SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ M भेदाः प्रव० सा || ततो धर्मधर्मिणोरभेदोपचारात् आत्मा सम्यक्त्ववान् सन् प्रसरति रुचिरूपेण प्रसरतीत्यर्थः, यदा तु “पयरई उ सम्मत्ते' इति पाठस्तदा। सम्यक्त्वरोद्धारे एकपदविषये सम्यक्त्वे-रुचौ सति अनेकेषु पदेषु प्रचरति-प्रकर्षेण व्यापितया गच्छति रुच्यात्मकत्वेनैवेत्यक्षरार्थः, भावार्थस्तु स एवेति, स्यैकादितत्त्वज्ञा तुशब्दोऽवधारणे, प्रसरत्येव, कथमित्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति नवि० तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमवशादशेषेषु तत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः, यथा हि कागा. ९४२ बीजं क्रमेणानेकबीजानां जनकं एवमस्यापि रुचिविषयो भेदतो भिन्नानां रुच्यन्तराणामिति ॥९५५।। अधिगमरुचिमाह-'सो'इत्यादि, यस्य ९६२ ॥२८४॥ श्रुतज्ञानमर्थतो दृष्टं, किमुक्तं भवति ?-येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि-आचारादीनि प्रकीर्णकानि-उत्तराध्ययननन्द्यध्ययनादीनि दृष्टिवादः-परिकर्मसूत्रादिः, अङ्गत्वेऽपि पृथगुपादानमस्स प्राधान्यख्यापनार्थ, चशब्दादुपाङ्गानि चौपपातिकादीनि, स भवत्यधिगमरुचिः ॥ ९५६ ॥ विस्ताररुचिमाह-'दवाण'मित्यादि, द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावाः-पर्यायाः सर्वप्रमाणैः-अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धाः-यस्य प्रमाणस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सबाहिं'ति सर्वैश्च नयविधिभिः-नैगमादिनयप्रकारैः, अमुं भावमयं अमुं चायं नयभेदमि(द इ)च्छतीति स विस्ताररुचिरिति ज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चा| वगमेन तस्य रुचेरतिविमलरूपतया भावात्॥९५७॥ क्रियारुचिमाह-'नाणे' इत्यादि, ज्ञाने तथा दर्शनं च चारित्रं च दर्शनचारित्रं समाहारद्वन्द्वस्तस्मिन् तथा तपसि विनये च, तथा सर्वासु समितिपु-ईर्यासमित्यादिषु सर्वासु च गुप्तिषु-मनोगुप्तिप्रभृतिषु 'सच्च'त्ति पाठे तु सत्या-निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च-अविसंवादनयोगाद्यात्मकं समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रिया- ॥२८४॥ भावरुचिः, किमुक्तं भवति ?-यस्य भावतो ज्ञानाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम, इह च चारित्रान्तर्गतत्वेऽपि तपः %ॐॐॐ45455 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy