________________
SAE+%
सङ्केपार्थः॥९५०॥ व्यासार्थ तु स्वत एव सूत्रकृदाह-'जो'इत्यादि, यो जिनदृष्टान्-तीर्थकरोपलब्धान् भावान-जीवादिपदार्थाश्चतुर्विधान-४ द्रव्यक्षेत्रकालभावभेदतो नामस्थापनाद्रव्यभावभेदतो वा चतुष्पकारान् स्वयमेव-परोपदेशनिरपेक्षं जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति, केनोल्लेखेन श्रद्दधाति ? तत आह-एवमेवैतत् जीवादि यथा जिनैदृष्टं नान्यथेति, चः समुच्चये, एष निसर्गरुचितिव्यः ॥९५१ उपदेशरुचिमाह-एए'इत्यादि, एतांश्चैव अनन्तरोक्तान तुः पूरणे भावान्-जीवादीनुपदिष्टान्-कथितान् परेण-अन्येन श्रद्दधाति-तथेति 8 प्रतिपद्यते, कीदृशेन परेण ?-छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थ:-अनुत्पन्नकेवलस्तेन जयति रागादीनिति जिनस्तेन च-उत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाजिनस्य प्राचुर्येण वा तथाविधोपदेष्टुणां, स ईदृक्किमित्याह-उपदेशरुचिरिति ज्ञातव्यः॥९५२॥ आज्ञारुचिमाह-रागो'इत्यादि, राग:-अभिष्वङ्गो द्वेषः-अप्रीतिः मोहः-शेषमोहनीयप्रकृतयः अज्ञानमिथ्याज्ञानरूपं यस्यापगतं-नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दस्य लिङ्गविपरिणामतो रागादिभिः प्रत्येकममिसम्बन्धः, एतदपगमाच 'आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव केवलया तीर्थकरादिसम्बन्धिन्या रोचमानः-कचिदपि कुग्रहाभावात् प्रवचनोक्तमर्थजातं तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु-निश्वितमाज्ञारुचिः नामेत्यभ्युपगमे ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः॥९५३॥ सूत्ररुचिमाह-'जोसुत्ते'इत्यादि, यः सूत्रं आगममधीयानः पठन् श्रुतेनेति-सूत्रेण तेनैवाधीयमानेन अङ्गेन-अङ्गप्रविष्टेनाचारादिना बाह्येन च-अङ्गवाह्येन आवश्यकादिना सम्यक्त्वमवगाहते-प्राप्नोति तुशब्दस्याधिकार्थसूचकत्वात्प्रसन्नप्रसन्नतराध्यवसायश्च भवति स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः।।९५४॥ बीजरुचिमाह-एगे'त्यादि,एकेन पदेन प्रक्रमाजीवादिना अवगतेन अनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु-बहुषु पदेषु-जीवादिषु यः प्रसरति-व्यापितया गच्छति सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता
EXAMACROSAROKAR
Jan Education Intematon
For Private
Personal Use Only