SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥२८३॥ | इतरत्तूक्त्तिानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदं, चरमग्रासशेषाणां पुद्गलानां क्षयाचरमग्रासवर्तिनां तु मिथ्या- सस्यत्वस्वभावापगमलक्षणस्योपशमस्व सद्भावादिति ॥९४८॥ अथ दशविधं सम्यक्त्वमाह-'एय'मित्यादि, एतदेवानन्तरोदितं पञ्चविधं सम्यक्त्वं स्यैकादि| निसर्गाधिगमभेदाभ्यां दशधा भवति, क्षायिकक्षायोपशमिकऔपशमिकसास्वादनवेदकानां प्रत्येकं निसर्गतोऽधिगमतश्च जायमानत्वादश विध- 8 भेदाः त्वमित्यर्थः, अथवेति प्रकारान्तरोपदर्शनार्थः निसर्गरुचिरुपदेशरुचिरित्यादिरूपतया यदागमे-प्रज्ञापनादौ प्रतिपादितं तेन च दशविधत्व- गा.९४२. मवगन्तव्यम् ॥९४९॥ तदेवाह-'निसरगु'इत्यादि, अत्र रुचिशब्दः प्रत्येक योज्यते ततो निसर्गरुचिरुपदेशरुचिरिति द्रष्टव्यम् , अत्र निसर्ग:- ॥९६२ स्वभावस्तेन रुचिः-जिनप्रणीततत्त्वामिलाषरूपा यस्य स निसर्गरुचिः १ उपदेशो-गुर्वादिमिर्वस्तुतत्त्वकथनं तेन रुचि:-उक्तस्वरूपा यस्य स उपदेशरुचिः २ आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचि:-अभिलाषो यस्य स आज्ञारुचिः ३ 'सुत्तबीयरुइमेव'त्ति अत्रापि रुचिशब्दः प्रत्येकममिसम्बध्यते, सूत्र-आचारायणप्रविष्टं अङ्गबाह्यं चावश्यकदशवैकालिकादि तेन रुचिर्यस्य स सूत्ररुचिः ४ बीजमिव बीजं यदे| कमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः ५, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइ'त्ति अत्रापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धः, ततोऽधिगमरुचिर्विस्ताररुचिश्च, तत्राधिगमो-विशिष्टं परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः६ विस्तारो-व्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचनमिति भावः तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः ७ 'किरियासंखेवधम्मरुइ'त्ति रुचिशब्दस्यात्रापि प्रत्येकममिसम्बन्धात् क्रियारुचिः सङ्केपरुचिधर्मरुचिरिति द्रष्टव्यं, तत्र क्रिया-सम्य क्संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः ८ सङ्केपः-सङ्ग्रहस्तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स सद्धेपरुचिः ९ धर्मे-अस्तिकायधर्मे १ श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिः, यह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कश्चिदनन्यत्वख्यापनार्थमिति गाथा X ८२॥ Jan Education te For Private Personal use only X w .jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy