SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अ. सा. ४८ मर्दकादिवत् अथ च धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचित्तत्त्वानि जिनोक्तानि दीपयति- परस्य प्रकाशयति यस्मात्तस्मा - तत्सम्यक्त्वं दीपकमुच्यते, ननु स्वयं मिथ्यादृष्टिरथ च तस्य सम्यक्त्वमिति कथमुच्यते ? विरोधात् उच्यते, मिध्यादृष्टेरपि सतस्तस्य यः | परिणामविशेषः स खलु प्रतिपत्तॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारात् सम्यक्त्वमित्युच्यते, यथाऽऽयुर्धृतमित्यदोषः ॥ ९४६ ॥ अथ चतुर्विधं सम्यक्त्वमाह - 'खइये 'त्यादि, तदेव क्षायिकादित्रिविधं सम्यक्त्वं सास्वादनसहितं चतुर्विधं विज्ञेयं, तत्पुनः साखादनमनन्तानुबन्धिकषायोदयेन सम्यक्त्वस्योपशमिकाख्यस्य भ्रंशे - हासे मिथ्यात्वाप्राप्तिरूपमवसेयं, इयमत्र भावना - इहान्तरकरणे औपशमिकसम्यक्त्वा - द्धायां जघन्यतः समयशेषायामुत्कृष्टतस्तु पडावलिकाशेषायां वर्तमानस्य कस्यचिदनन्तानुबन्धिकषायोदयः सम्पद्यते, ततस्तेन कषायोदयेनौपशमिकसम्यक्त्वा श्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयमुत्कृष्टतस्तु षडावलिकाः सास्वादनसम्यक्त्वं भवति, | परतस्त्वसौ नियमेन मिध्यात्वोदयान्मिथ्यादृष्टिर्भवतीति ॥ ९४७ ॥ सम्प्रति पञ्चविधं सम्यक्त्वमाह - 'वेयये' त्यादि, एतदेव पूर्वोक्तं चतुर्विधं सम्यक्त्वं वेदकसम्यक्त्वसंयुक्तं पुनः पञ्चधा - पञ्चविधं विनिर्दिष्टं - विशेषतः कथितं वीतरागैः, तञ्च वेदकसम्यक्त्वं सम्यक्त्वपुञ्जस्य बहुत| रक्षपितस्य चरमपुद्गलानां वेदनकाले - प्राससमये भवति, वेदयति-अनुभवति सम्यक्त्वपुद्गलान् इति वेदक:- अनुभविता, तदनर्थान्तरभूतत्वात् सम्यक्त्वमपि वेदकं यथा आहियत इत्याहारकं तथा वेद्यत इति वेदकं, इदमत्र तात्पर्यम् - क्षपकश्रेणिं प्रतिपन्नस्यानन्तानुबन्धि| कषायचतुष्टयमपि क्षपयित्वा मिध्यात्वमिश्रपुजेषु सर्वथा क्षपितेषु सम्यक्त्वपु जमप्युदीयदीर्यानुभवेन निर्जरयतो निष्ठितोदीरणीयस्य चरमप्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्वपुञ्जपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं सम्यक्त्वमुपजायते इति । अत्राह - नन्वेवं सति क्षायो: | पशमिकेन सहास्य को विशेष: ?, सम्यक्त्वपु अपुद्गलानुभवस्योभयत्रापि समानत्वात् सत्यं किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तं, Jain Education International For Private & Personal Use Only 2 www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy