________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २८२ ॥
सम्यक्प्रतिपन्यप्रतिबन्धकत्वेनोपचारात् सम्यक्त्त्रपुञ्ज उच्यते, द्वितीयस्तु अर्धशुद्ध इति मिश्रपुञ्ज उच्यते, तदुदये तु जिनधर्मे औदासीन्यमेव भवति, अशुद्धस्त्वर्हदादिषु मिथ्याप्रतिपत्तिजनकत्वान्मिथ्यात्वपुजोऽभिधीयते, तदेवमन्तरकरणेन अन्तर्मुहूर्तकालमौपशमिक सम्यक्त्वेऽनुभूते तदनन्तरं नियमादसौ क्षायोपशमिकसम्यग्दृष्टिर्मिश्री मिध्यादृष्टिर्वा भवतीत्येष कार्मग्रन्थिकाभिप्रायः, सैद्धान्तिकाः पुनरयमनादिमिध्यादृष्टिः कोऽपि ग्रन्थिभेदं विधाय तथाविधतीत्रपरिणामोपेतत्वेनापूर्वकरणमुपारूढः सन्मिथ्यात्वं त्रिपुञ्जीकरोति 'अपुब्वेण तिपुंजं मिच्छत्तं कुणइ कोहवोवमया ।' इति वचनात् ; ततोऽनिवृत्तिकरणसामर्थ्याच्छुद्धपुजपुद्गलान् वेदयन्नोपशमिकं सम्यक्त्वमलब्ध्यैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्त्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते, पुंजत्रयं त्वसौ न करोत्येव, ततश्चौपशमिकसम्यक्त्वाच्युतोऽवश्यं मिथ्यात्वमेव गच्छतीति । नन्वौपशमिकसम्यक्त्वस्य क्षायोपशमिकसम्यक्त्वात्को विशेष: ?, उभयत्रापि ह्यविशेषेणोदितं मिध्यात्वं क्षीणं अनुदितं चोपशान्तमिति, उच्यते, अस्ति विशेषः, क्षायोपशमिके हि सम्यक्त्वे मिध्यात्वस्य प्रदेशानुभवोऽस्ति, न त्वौपशमिके सम्यक्त्वे इति, अन्ये तु व्याचक्षते - श्रेणिमध्यवर्तिन्येवौपशमिके सम्यक्त्वे प्रदेशानुभवो नास्ति, न तु द्वितीये, तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति ॥ ९४५ ॥ इदानीं कारकरोचकदीपकसम्यक्त्वानि क्रमे गाह-विहितस्य- आगमोक्तस्य यदनुष्ठानं करणं तदिह - सम्यक्त्वविचारे कारकं सम्यक्त्वं, अयमर्थः - यदनुष्ठानं यथा सूत्रे भणितं तद् यस्मिन् सम्यक्त्वे परमविशुद्धिरूपे सति देशकाल संहननानुरूपशक्त्यनिगूहनेन तथैव करोति तत् सदनुष्ठानं कारयतीति कारकमुच्यते, एतच साधूनां द्रष्टव्यं तथा श्रद्धानमात्रं रोचकं सम्यक्त्वं, इदमुक्तं भवति - यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति तद्रोचयति तथा विश्वविशुद्धिभावाद्विहितानुष्ठानं इति रोचकं, यथा श्रेणिकादीनां तथा यः स्वयमिह मिथ्यादृष्टिरभव्यो वा कश्चिदङ्गार
Jain Education International
For Private & Personal Use Only
सम्यक्त्व स्यैकादि
भेदाः
गा. ९४२. ९६२
॥ २८२ ॥
www.jainelibrary.org