________________
SAROKAROCRORSCRATEGIRECACOCK
मिकं सम्यक्त्वमाह-मिथ्यात्वस्य-मिथ्यात्वमोहनीयस्य कर्मणो य उपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युद्यस्य भस्मच्छन्नवह्निवद्विष्कम्भणं तस्मात् 'उबसमयंति प्राकृतशैल्या औपशमिकं तत्सम्यक्त्वं भणन्ति समयज्ञाः-सिद्धान्तवेदिनः, तत्पुनरुपशमश्रेण्यामौपपशमिकी श्रेणिमनुप्रविष्टस्य सतो जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशमं नीते भवति, किमुपशमश्रेणिगतस्यैवैतद्भवति ?, नेत्याह
'आइमे'त्यादि, आदिमः-प्रथमोऽनादिमिथ्यादृष्टेः सतो जीवस्य योऽसौ सम्यक्त्वलाभस्तस्मिन् वा औपशमिकं सम्यक्त्वं भवति । इह 5 खवनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिध्वनाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेन क्षपयित्वा प्रत्येक पल्योपमासङ्ख्येयभागन्यूनसा-5
गरोपमकोटीकोटिप्रमाणतां नीतासु अपूर्वकरणेन 'भन्नइ करणं तु परिणामों' इतिवचनाद्ध्यवसायविशेषरूपेणातिप्रकृष्टधनरागद्वेषपरिणामजनितस्य बनाश्मवद् दुर्भेद्यस्य कर्मग्रन्थेर्मेदं विधायानिवृत्तिकरणं प्रविशति, तत्र च प्रतिसमयं विशुद्ध्यमानस्तान्येव कर्माणि निरन्तरं क्षपयन् उदीर्ण मिथ्यात्वं वेदयन् अनुदीर्णस्य तु तस्योपशमलक्षणमन्तर्मुहूर्त्तकालमानमन्तरकरणं प्रविशति, तस्य चायं विधिःयदुत अन्तरकरणस्थितेमध्याद्दलिकं गृहीत्वा प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, एवं च प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणदलिकं सकलमपि क्षीयते, अन्तर्मुहूर्तेन च कालेन सकलदलिकक्षयः, ततस्तस्मिन्ननिवृत्तिकरणेऽवसिते उदीर्णे च मिथ्यात्वेऽनुभवतः क्षीणे अनुदीर्णे च परिणामविशुद्धिविशेषतो विष्कम्भितोदये ऊपरदेशकल्पं मिथ्यात्वविवरमासाद्य औपशमिकं सम्यक्त्वमधिगच्छति, तस्मिंश्च | स्थितः सत्तायां वर्तमानं मिथ्यात्वं विशोध्य पुजत्रयरूपेणावश्यं व्यवस्थापयति, यथा हि कश्चिन्मदनकोद्रवानौषधवशेन शोधयति, ते च शोध्यमानाः केचिच्छुद्ध्यन्ति केचिदर्घशुद्धा एव भवन्ति केचित्तेष्वपि सर्वथैव न शुद्ध्यन्ति, एवं जीवोऽप्यध्यवसायविशेषतो जिनवचनरुचिप्रतिबन्धकदुष्टरसोच्छेदकरणेन मिथ्यात्वं शोधयति, तदपि शोध्यमानं शुद्धमर्घशुद्धमशुद्धं च त्रिधा जायते, तत्र शुद्धपुखः सर्वज्ञधर्मे
Jan Education in
For Private
Personal use only
www.jainelibrary.org