________________
156
सम्यक्त्व स्यैकादि
भेदाः
गा.९४२. ९६२
प्रव० सा- दमित्यर्थः, 'सम्यग् रुचिः' सम्यग्-अज्ञानसंशयविपर्यासनिरासेन इदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वभिप्रीतिः,
रोद्धारे जिनोक्तानुसारितया तत्त्वार्थश्रद्धानरूपमेकविधं सम्यक्त्वमिति भावः, तथा निसर्गाधिगमाभ्यां तत्-सम्यक्त्वं भवेद् द्विविधं, तत्र नितत्त्वज्ञा- | सर्गः-खभावो गुरूपदेशादिनिरपेक्षस्तस्मात्सम्यक्त्वं भवति, यथा नारकादीनां, अधिगमो-गुरूपदेशादिस्तस्मात्सम्यक्त्वं भवतीति प्रतीनवि०
तमेव, अयमभिप्रायः-तीर्थकरागुपदेशदानमन्तरेण स्वत एव जन्तोर्यत्कोपशमादिभ्यो जायते तन्निसर्गसम्यक्त्वं, यत्पुनस्तीर्थकरायुप
देशजिनप्रतिमादर्शनादिबाह्यनिमित्तोपष्टम्भतः कर्मोपशमादिना प्रादुर्भवति तदधिगमसम्यक्त्वमिति, तथा त्रिविधं तत्-सम्यक्त्वं क्षायि॥२८१॥
कादि, अथवा त्रिविधं कारकादि ।। ९४३ ॥ तत्र क्षायिकक्षायोपशमिके व्याख्यातुमाह-सम्यक्त्वमिश्रमिथ्यात्वकर्मक्षयाणन्ति तीर्थकरगणधराः क्षायिक सम्यक्त्वं, त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेण-निर्मूलोच्छेदेन निर्वृत्तं क्षायिकं, असमर्थः-अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुजलक्षणे त्रिविधेऽपि दर्शनमोहनीयकर्मणि सर्वथा क्षीणे क्षायिक सम्यक्त्वं भवतीति, तथा मिथ्यात्वस्य-मिथ्यात्वमोहनीयकर्मण उदीर्णस्य क्ष्यादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कम्भितोदयस्वरूपाच्च क्षायोपश|मिकं सम्यक्त्वं व्यपदिशन्ति-कथयन्ति, इदमुक्तं भवति-यदुदीर्ण-उदयमागतं मिध्यात्वं तद्विपाकोदयेन वेदितत्वात् क्षीण-निर्जीर्ण, हायच शेषं सत्तायामनुदयागतं वर्तते तदुपशान्तं, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, मिथ्यात्वमिश्रपुजावानित्य [विष्कम्भितोदयं शुद्धपुजमाश्रित्य पुनरपनीतमिथ्यात्वस्वभावमित्यर्थः, तदेवमुदीर्णस्य मिथ्यात्वस्य श्रयेण अनुदीर्णस्य चोपशमेन निर्वृत्तत्वात् त्रुटितरसं शुद्धपुजलक्षणं मिथ्यात्वमपि क्षायोपशमिकं सम्यक्त्वमुच्यते, शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टेर्यथाऽवस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्यावारका न भवन्ति, अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यन्ते इति ॥ ९४४ ॥ अथौपश
॥२८१॥
Jain Education mammonal
For Private Personal Use Only
T
w w.jainelibrary.org