________________
यिकव्यावहारिकभेदतः पौगालिकापौद्गलिकभेदतो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति || यथावत्संयमानुष्ठानरूपं मौनं-अविकलं मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वं, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभा|त्मपरिणामः किंतु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वं, तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति, उक्तं च 'जं मोणं तं सम्मं जं सम्म तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ॥१॥यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह भवति मौनमेव । निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वं ॥ १॥] व्यवहारनयमतमपि च प्रमाणं, तबलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात् , तदुक्तं-'जइ जिणमयं पवजह ता मा ववहारनिच्छयं मुयह । ववहार-| | नओच्छेए तित्थुच्छेओ जओऽवस्सं ॥१॥" [यदि जिनमतं प्रतिपद्यसे तर्हि व्यवहारनिश्चयौ मा मुञ्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो || यतोऽवश्यं ।। १॥] इति, तथा अपनीतमिथ्यास्वभावसम्यक्त्वपुजगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुजपुद्गलानां क्षयादुपशमाञ्च जातं केवलजीवपरिणामरूपं क्षायिकमापशमिकं चापौद्गलिकं, नैसर्गिकाधिगमिके पुनरप्रे वक्ष्येते, तथा 'त्रिविधं कारकादि' कारकरोचकदीपकभेदतः, 'उवसमभेएहिं वत्ति वाशब्दः त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः, बहुवचनं च |गणार्थ, ततत्रिविधं चतुर्विधं पञ्चविधं दशविधं च सम्यक्त्वमुपशमादिभिर्भेदैर्भवतीति, इदमुक्तं भवति-औपशमिकक्षायिकक्षायोपशमि
कभेदात् त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाच्चतुर्विधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदात्पञ्चविधं, | एतदेव प्रत्येक निसर्गाधिगमभेदाद्दशविधमिति, कथं पुनर्द्विविधादिभेदं सम्यक्त्वमित्याह-सम्यग्-अवैपरीत्येन आगमोक्तप्रकारेण, न तु |स्वमतिपरिकल्पितभेदैरिति भावः ॥ ९४२ ॥ अथैनामेव गार्था स्फुटतरं व्याख्यानयन्नाह-एकविधं-एकप्रकारमुपाधिभेदाविवक्षया निर्भ
Jain Education Lerriatore
For Private & Personel Use Only
Sawwiljainelibrary.org