________________
प्रव० सारोद्धारे
तत्त्वज्ञा
नवि०
॥ २७९ ॥
ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः, तथा च तद्वचः – “दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काश्चित्, स्नेहक्षयात्केवलमेति शान्तिम् ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित् केशश्यात्केवलमेति शान्तिम् ॥ २ ॥ एतच्चायुक्तं, दीक्षादिप्रयासवैयर्थ्यात् प्रदीपदृष्टान्तस्याप्यसिद्धत्वात्, तथाहि--न प्रदीपानलस्य सर्वथा विनाशः, किन्तु तथाविधपुद्गलपरिणामवैचित्र्यात्त एव पावकपुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमाप्नुवन्ति, तथा च विध्याते प्रदीपेऽनन्तरमेव तामसपुद्गलरूपो विकारः समुपलभ्यते, चिरं चासौ पुरस्ताद्यन्नोपलभ्यते तत्सूक्ष्मसूक्ष्मतर परिणामसद्भावादजनरजोवत्, अञ्जनस्य हि पवनेनापहियमाणस्य यत्कृष्णरज उड्डीयते तदपि परिणामसौक्ष्म्यानोपलभ्यते न पुनरसन्त्वादिति, ततो यथाऽनन्तरोक्तस्वरूपं परिणामान्तरं प्राप्तः प्रदीपो निर्वाण इत्युच्यते तथा जीवोऽपि कर्मविरहितः केवलामूर्तजीवस्वरूपलक्षणं परिणामान्तरं प्राप्तो निर्वाणमुच्यते, तस्मात् दुःखादिक्षयरूपा सतोऽवस्था निर्वाणमिति स्थितं ५ । 'अत्थि य मोक्खोवाओ'त्ति अस्ति च मोक्षस्य - निर्वृत्तेरुपायः - सम्यक्साधनं, सम्यग्दर्शनज्ञानचारित्राणां मुक्तिसाधकतया घटमानकत्वात्, तथाहि सकलमपि कर्मजालं मिध्यात्वाज्ञानप्राणिहिंसादिहेतुकं ततस्तत्प्रतिपक्षतया सम्यग्दर्शनाद्यभ्यासः सकलकर्मनिर्मूलनाय प्रभविष्णुरेव न चैवं मिध्यादृष्टिप्रणीतोऽप्युपायो मुक्तिसाधको भविष्यतीति वाच्यं तस्य हिंसादिदोषकलुषितत्वेन संसारकारण- 8 त्वात् अनेनापि मोक्षोपायाभावप्रतिपादक दुर्नयन्यक्कारः कृतः ६ । एतान्यात्मास्तित्वादीनि षट् सम्यक्त्वस्थानानि सम्यक्त्वमेषु सत्स्वेव भवतीति भावः, अत्र च प्रतिस्थानकमात्मादिसिद्धये बहु वक्तव्यं तत्तु नोच्यते प्रन्थगहनताप्रसङ्गादिति १४८ ।। ९४१ ॥ इदानीं 'एग विहाइ दसविहं सम्मत्तं' ये कोनपश्चाशदधिकशततमं द्वारमाह
॥ २७९ ॥
Jain Education International
For Private & Personal Use Only
सम्यक्तव
स्यैकादि
भेदाः
गा. ९४२९६२
Inelibrary.org