________________
दुःखानुभवो निहेतुकः, सर्वदा सद्भावाभावप्रसङ्गात् , 'नित्यं सत्त्वमसत्त्वं वाऽहे तोरन्यानपेक्षणात्' । इति न्यायात् , तस्मादस्य सुखदुःखानुभवस्य स्वकृतमेव कर्म हेतुरिति सिद्धो जीवः कर्मणां कर्तेति कापिलप्रतिकल्पनाप्रतिक्षेपः, नन्वयं जीवः सुखाभिलाषी-न कदाचनाप्यात्मनो दुःखमाशास्ते ततो यदि स्वकर्मणामेष कर्ता ततः कथं दुःखफलं कर्म करोति ?, उच्यते, यथा हि रोगी रोगनिवृत्तिमिच्छन्नपि रोगाभिभूतत्वाद् अपथ्यक्रियानिबन्धनं भाविनमपायं जानन्नपि चापथ्यक्रियामासेवते तद्वदेषोऽपि जीवो मिथ्यात्वाद्यभिभूतत्वात् कथंचित् जानन्नपि दुःखफलं कर्म करोतीति ३ । 'कयं च वेएइ'त्ति स च जीवः कृतं-स्वयमभिनिर्वर्तितं शुभाशुभं कर्म वेदयते-खयमेवोपभुङ्क्ते अनुभवलोकागमप्रमाणतस्तथैवोपपद्यमानत्वात् , तथाहि-यदि स्वयंकृतकर्मफलभोक्तृत्वं जीवस्य नाभ्युपगम्यते ततः सुखदुःखानुभवो मुक्ताकाशयोरिव तस्य न स्यात् , सुखदुःखानुभवकारणसातासातवेदनीयकर्मोपभोगाभावात् , अस्ति चायं सुखदुःखानुभवः प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धत्वात् , लोकेऽप्येष जीवः प्रायो भोक्ता सिद्धः, तथाहि-सुखिनं कञ्चन पुरुषं दृष्ट्वा लोके वक्तारो भवन्ति-पुण्यवानेष यदित्थं सुखमनुभवतीति, तथा आगमेषु च जैनेतरेषु भोक्ता सिद्धः 'सव्वं च पएसतया मुंजइ कम्ममणुभावओ भइयं' [ सर्व च प्रदेशतया भुज्यते कर्म, अनुभावतो भाज्यं । ] तथा 'नाभुक्तं क्षीयते कर्म, कोटिकल्पशतैरपि । इत्यादिवचनात् , न चैवं लोकप्रतीतावागमेषु वा वर्तमानेषु कस्यचिद्विवेकचक्षुषो विप्रतिपत्तिरस्ति, कृतवैफल्यप्रसङ्गात्, न चैतद्युज्यते, वणिक्कृषीवलादीनां स्वकृतशुभाशुभकर्मफलभोगस्य साक्षादेव दर्शनात् , तथा च सति सिद्ध एष जीवः स्वकृतकर्मणां भोक्तेति, अनेन चाभोक्तजीववादी दुर्नयो निराकृतः ४ । 'अस्थि निवाणं ति अस्य जीवस्यास्ति-विद्यते निर्वाणं-मोक्षः, सत एव जीवस्य रागद्वेषमदमोह जन्मजरारोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावत् , एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्याद्यसङ्गतं सङ्गिरन्तः सौगतविशेषा व्युदस्ताः,
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org