________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि.
॥२७८॥
* क्त्वभाजनं विना विनाशमासादयेदिति, 'निहि'त्ति निधिरिव निधिः, यथा हि निरवधिनिधिव्यतिरेकेण महाहमणिमौक्तिककनकादिद्रव्यं न प्राप्यते तथा सम्यक्त्वमहानिधानानभिगतौ चारित्रधर्मवित्तमपि निरुपमसुखसम्पादकं न प्राप्यते इति, इत्येताभिः पडिर्भावनाभिर्भा
१४८संव्यमानमिदं सम्यक्त्वमविलम्बमसममोक्षसुखसाधकं भवतीति ।। ९४०॥ 'छट्ठाणं'ति प्रपञ्चयितुमाह-'अत्थी'त्यादि, अस्ति-विद्यते 3
ज्ञाद्वार
गा. ९२६चशब्दस्यावधारणार्थत्वादस्त्येव जीव इति गम्यते, प्रतिप्राणि स्वसंवेदनप्रमाणप्रसिद्धचैतन्यान्यथानुपपत्तेः, तथाहि-न चैतन्यमिदं भूतानां
९४१ ला धर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यस्येव तस्य सर्वत्र सर्वदा चोपलम्भप्रसङ्गात् , न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृताव-18
स्थायां चानुपलम्भात् , नापि चैतन्यमिदं भूतानां कार्य, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्याप्यनुपपत्तेः, तथाहि-प्रत्यक्षत एव काठिन्यादिखभावानि भूतानि प्रतीयन्ते, चैतन्यं च तद्विलक्षणं, ततः कथमनयोः कार्यकारणभावः ?, तन्न भूतधर्मो भूतकार्य वा चैतन्यं, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, अतो यस्येदं स जीव इति, अनेन च नास्तिकमतमपहस्तितं १ । 'निच्चो त्ति स च | जीवो नित्यः-उत्पत्तिविनाशविरहितः, तदुत्पादककारणाभावात् सतः सर्वथा विनाशायोगाच, अनित्यत्वे हि जीवस्य बन्धमोक्षाद्यकाधिकरणत्वाभावप्रसक्तेः, तथाहि-यद्यात्मा नित्यो नाभ्युपगम्यते, किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव, तथा सत्यन्यस्य बन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुदन्यस्य तृप्तिः अन्योऽनुभविताऽन्यः स्मर्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधिरहितो जायते अन्यस्तपःक्लेशमधिसहतेऽपरः स्वर्गसुखमनुभवति अपरः शास्त्रमभ्यसितुमारभतेऽन्योऽधिगतशास्त्रार्थों भवति, न चैतद्युक्तं, अतिप्रसङ्गादिति,
LI॥२७८॥ एतेन शौद्धोदनिसिद्धान्तध्वान्तमपध्वस्तं २ । 'कुणइत्ति स च जीवः करोति मिथ्यात्वाविरतिकषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निवर्तयति, प्रतिप्राणिप्रतीतविचित्रसुखदुःखाद्यनुभवान्यथानुपपत्तेः, तथाहि लोके सुखं दुःखं वा चित्रमनुभूयते, न चैष चित्रसुख
Join Education International
For Private
Personel Use Only
www.jainelibrary.org