________________
भियोगो गणाभियोगः, बलं बलवतो हठप्रयोगस्तेनाभियोगो बलाभियोगः, सुरस्य - कुलदेवतादेरभियोगः सुराभियोगः, कान्तारं - अरण्यं तत्र वृत्ति:- वर्तनं निर्वाहः कान्तारवृत्तिः यद्वा कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं ततः कान्तारेण बाधया वृत्तिः - प्राणवर्त्तनरूपा कान्तारवृत्तिः, कष्टेन निर्वाह इतियावत्, गुरवो - मातृपितृप्रभृतयः, यदुक्तं ' माता पिता कलाचार्या, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥ तेषां निग्रहो - निर्बन्धः, तदेताः षट् छिण्डिका-अपवादा जिनशासने भवन्ति इदमत्र तात्पर्यम् - प्रतिपन्नसम्यक्त्वस्य परतीर्थिक वन्दनादिकं यत्प्रतिषिद्धं तद्राजामियोगादिभिरेतैः षङ्गिः कारणैर्भक्तिवियुक्तं द्रव्यतः समाचरन्नपि | सम्यत्वं नातिचरतीति ॥ ९३९ ॥ ' छन्भावणभावियं' ति व्याख्यातुमाह- 'मूलं दार 'मित्यादि, द्विषट्कस्यापि - द्वादशभेदस्यापि पञ्चाणुव्रतत्रिगुणव्रतचतुः शिक्षात्रतरूपस्य चारित्रधर्मस्य इदं सम्यक्त्वं मूलं कारणमित्यर्थः परिकीर्तितं कथितं, तीर्थकरादिभिरिति सर्वत्र सम्बन्धः, यथा हि मूलविरहितः पादपः प्रचण्डपवनप्रकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सुदृढसम्यक्त्वमूलविहीनः कुतीर्थिकमतमारुतान्दोलितः स्थैर्यं नासादयेदिति, 'दारं'ति द्वारमित्र द्वारं प्रवेशमुखमिति भावः, यथा हि अकृतद्वारं नगरं समन्ततः प्राकारवलयवेष्टितमप्यनगरमेव भवति जनप्रवेशनिर्गमाभावात् एवं धर्ममहापुरमपि सम्यक्त्वद्वारशून्यमशक्याधिगमं स्यादिति, 'पइट्ठाणं' ति प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं पीठं, ततः प्रतिष्ठानमिव प्रतिष्ठानं यथा हि पयः पर्यन्तपृथ्वीतलगतगर्तापूरकरहितः प्रासादः सुदृढो न भवति तथा धर्मदेवस्य हर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानपरित्यक्तं निश्चलं न भवेदिति, 'आहारो'त्ति आधार इव आधार आश्रय इतियावत् यथा हि धरातलमन्तरेण निरालम्बं जगदिदं न तिष्ठति, एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण नावतिष्ठति, 'भायणं'ति भाजनमिव भाजनं पात्रमित्यर्थः, यथा हि कुण्डादिभाजनविशेषविवर्जितं क्षीरादिवस्तुनिकुरम्बं विनश्यति एवं धर्मवस्तुनिवहो ऽपि सम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org