________________
*%
%
%
-CASSTORIES
%
जिनशासने-अर्हद्दर्शनविषये एतच्च सर्वत्र सम्बध्यते कुशलता-नैपुण्यं, तद्वशेन हि नानाप्रकारैरुपायैः सुखेनैव परं प्रतिबोधयतीति, तथा प्रभवति जैनेन्द्र शासनं तस्य प्रभवतः प्रयोजकत्वं च प्रभावना, सा चाष्टधा प्रभावकभेदेन प्रागेवोक्ता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिबन्धनत्वेन च प्राधान्यख्यापनार्थ, तथा आयतनं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो जिनगृहादि भावतस्तु ज्ञानदर्शनचारित्राधाराः साध्वादयः तस्यासेवनं-पर्युपास्तिः, स्त्रीत्वं च प्राकृतत्वादिति, तथा स्थिरता-जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्पकम्पता, तथा भक्तिः-प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः, एते सम्यक्त्वस्य दीपका:-प्रभासका उत्तमाः-प्रधाना गुणा-भूषणानि, एतैर्गुणैः सम्यक्त्वमलकियत इति भावः ॥९३५॥ 'लक्खणपंचविहसंजुत्तति विवृण्वन्नाह-'उवसमे'त्यादि, अपराधविधायिन्यपि कोपपरिवर्जनमुपशमः, स च कस्यचित्कषायपरिणतेः कटुकफलावलोकनाद्भवति कस्यचित्पुनः प्रकृत्यैवेति, तथा नरामरसुखपरिहारेण मुक्तिसुखाभिलाषः संवेगः, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां
विषयसुखानि दुःखानुषङ्गाद् दुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति चेति, तथा नारकतिर्यगादिसांसारिकदु:4 खेभ्यो निर्विष्णता निर्वेदः, सम्यग्दर्शनी हि दुःखातिगहने संसारकारागारे गुरुतरकर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुम& क्षमो ममत्वरहितश्च दुःखेन निर्विष्णो भवति, अन्ये तु संवेगो भवविरागः निर्वेदो मोक्षामिलाष इत्यनयोरर्थव्यत्ययमाहुः, तथा दुःखि
तेषु प्राणिष्वपक्षपातेन दुःखप्रहाणेच्छा दया अनुकम्पा, पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव, सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतिकारेण भावत आर्द्रहृदयत्वेनेति, तथा अस्तीति मतिरस्वेत्यास्तिकः तस्य भावः कर्म वा आस्तिक्यं, तत्त्वान्तरश्रवणेऽपि जिनगदिततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, एतान्युपशमादीनि पञ्च सम्यक्त्वे-सम्यक्त्वविषयाणि लक्षणानि,
%
%
A-व
Jain Education Interfation
For Private Personal use only
www.jainelibrary.org