________________
NAGAURACC-
साक्षान्न भवन्ति कृतकृत्यत्वात् तथापि फलतो भवन्ति तद्भावस्य तत्फलत्वादिति ॥ ९२९ । 'दसविणय'त्ति व्याख्यानयन्नाह-'अरिहंत'गाहा 'भत्ती'गाहा, अर्हन्त:-तीर्थकराः सिद्धा:-क्षीणाष्टकर्ममलपटलाः चैत्यानि-जैनेन्द्रप्रतिमाः श्रुतं-आचाराद्यागमः धर्म:क्षान्त्यादिरूपः साधुवर्ग:-श्रमणसमूहः आचार्योपाध्यायौ-प्रतीतौ प्रवक्ति जीवादितत्त्वमिति प्रवचनं-सङ्घः दर्शनं-सम्यक्त्वं तदभेदोपचारात्तद्वानपि दर्शनमुच्यते, एवं प्रागपि यथासम्भवं वाच्यं । एतेषु अहंदादिषु दशसु स्थानेषु विषयेषु किमित्याह-'भत्ती'त्यादि, भक्ति:-अभिमुखगमनासनप्रदानपर्युपास्त्यजलिबन्धानुव्रजनादिलक्षणा पूजा-गन्धमाल्यवस्त्रपात्रानपानप्रदानादिसत्काररूपा वर्णनं वर्ण:|श्लाघनं तेन ज्वलनं-ज्ञानादिगुणोद्भासनं वर्गज्वलनं तथा वर्जन-परिहरणमवर्णवादस्य-अलाघायाः आशातना-मनोवाकायैः प्रतीपवर्तनं
तस्याः परिहार:-प्रतिषेधः आशातनापरिहारः, एष दशस्थानविषयत्वादशविधो दर्शनविनयः, सम्यक्त्वे सति अस्य भावात्सम्यक्त्वविEMनयः 'समासेन' सङ्केपेण द्रष्टव्यः, विस्तरतस्तु शास्त्रान्तरादवसेय इति ॥ ९३१ ॥ 'तिसुद्धि'त्ति व्याचिख्यासुराह-'मोत्तूणे'त्यादि,
'मुक्त्वा' विमुख्य 'जिन' वीतरागं मुक्त्वा च 'जिनमरी' स्यात्पदलान्छिततया तीर्थकृङ्गिः प्रणीतं यथावस्थितं जीवाजीवादितत्त्वं तथा जिनमतस्थितांश्न-प्रतिपन्नपारमेश्वरप्रवचनान् साध्वादीन मुक्त्वा शेषमेकान्तग्रहप्रस्तं जगञ्चिन्त्यमानं-परिभाव्यमानं 'संसारकच्चवारं'ति
संसारमध्ये कचवरनिकरप्रायमसारमित्यर्थः, जिनादि त्रितयमेव सारं शेष तु सर्वमप्यसारमिति चिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेता-15 दस्तित्रः शुद्धय इति ।।९३२॥ 'पंचगयदोसं'ति प्रकटयन्नाह-संके'त्यादि, शङ्का-सर्वज्ञोक्तवचसि संशयः काला-अन्यान्यदर्शनाभिलाषः
विचिकित्सा-सदाचारसाध्वादिनिन्दा तथा कुत्सितं लिङ्ग-दर्शनं येषां ते कुलिङ्गिन:-कुतीथिकाः तेषु विषये प्रशंसा-ग्लाघा तथा तद्विषय | एत संस्तदः- पापणादिना परिचयः, एते पश्चापि शङ्कादयः सम्यक्त्वस्य मालिन्यहेतुत्वादतीचारा-दोषाः सम्यग्दृष्टिना प्रयत्नेन परि-1
-icof
.
6-
S
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org