________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २७५ ॥
दृष्टपरमार्था:- आचार्यादयस्तेषां सेवनं - पर्युपास्तिः सुदृष्टपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात् वाशब्दोऽनुक्तसमुच्चये; ततो यथाशक्ति तद्वैयावृत्तिप्रवृत्तिश्च, अपि समुच्चये, इति द्वितीयं श्रद्धानं, तथा 'वावन्नकुदंसण'त्ति दर्शनशब्दः प्रत्येकमभिसम्बध्यते व्यापन्नं - विपन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना - निह्नवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः - शाक्यादयस्तेषां वर्जनं परिहारो व्यापन्नकुदर्शनवर्जनं, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, अत्रापि स्त्रीत्वं प्राकृतत्वात् इति तृतीयचतुर्थे श्रद्धाने, 'सम्मत्तसद्दहणा' इति सम्यत्तवं श्रद्धीयते-अस्तीति प्रतिपद्यतेऽनेनेति सम्यत्तत्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्भवादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां सम्भवाद्व्यभिचारता, तात्विकानामेवैषामिहाधिकृतत्वात् तस्य च तथाविधानामेषामसम्भवादिति ॥ ९२८ ॥ 'तिलिं - गं'ति व्याख्यातुमाह – 'सुस्सूसे' त्यादि, श्रोतुमिच्छा-शुश्रूषा, हस्वत्वं तु प्राकृतशैल्या, सद्बोधावंध्यनिबन्धनधर्मशास्त्रश्रवणवान्छेत्यर्थः, सा च वैदग्ध्यादिगुणोत्तरतरुणनरकिन्नर गानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति, तथा धर्मः श्रुतचारित्रलक्षणः, तत्र श्रुतधर्मरागस्य शुश्रूषापदेनैव प्रतिपादितत्वादिह धर्मरागश्चारित्रधर्मरागोऽभिप्रेतः, स च तथाविधकर्मदोषतस्तदकरणेन कान्तारागत दुर्गतबुभुक्षाक्षामत्राह्मणघृतपूर्ण भोजनामिलाषादप्यतिरिक्तोऽत्र भवति, तथा गुरवो - धर्मोपदेशका आचार्यादयः देवाश्च -आराध्यतमा अर्हन्तो गुरुदेवाः तेषां, इह च गुरुपदस्य पूर्वनिपातो विवक्षया गुरूणां पूज्यतरत्वख्यापनार्थः, न हि गुरूपदेशमन्तरेण सर्वविदेवाभिगम इति भाव:, यथासमाधि - समाधानानतिक्रमेण, अत्र चाव्ययीभावसमासादपि तृतीयाया अलोपः प्राकृतत्वात्, वैयावृत्त्ये- तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियमः - अवश्यङ्कर्तव्यतयाऽङ्गीकारः, स च सम्यक्त्तत्वे सति भवतीत्येतानि सम्यग्दृष्टेः- धर्मधर्मिणोरभेदोपचारात् सम्यवस्य लिङ्गानि, एतैः शुश्रूषादिभिस्त्रिभिर्लिङ्गैः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयत इति भाव:, यद्यपि च शुश्रूषादय उपशान्तमोहादीनां
Jain Education International
For Private & Personal Use Only
१४८ सं. ज्ञाद्वार
गा. ९२६९४१
।। २७५ ।।
www.jainelibrary.org