________________
सणम्मि ॥ ९३९ । मूलं १ दारं २ पइहाणं ३, आहारो ४ भायणं ५ निही ६ । दुच्छकस्सावि धम्मस्स, सम्मत्तं परिकित्तियं ॥९४०॥ अस्थि य १ निचो २ कुणई ३ कयं च वेएइ ४ अस्थि निवाणं ५। अस्थि य मोक्खावाओ ६ छस्सम्मत्तस्स ठाणाई ॥९४१ ॥ चत्वारि श्रद्धानानि यत्र तञ्चतुःश्रद्धानं, श्रद्धानचतुष्टयान्वितं सम्यक्त्वं भवतीति भावः, प्राकृतत्वाच्च प्रथमैकवचनलोपः, एवमग्रेऽपि | यथासम्भवं समासो विभक्तिलोपश्च द्रष्टव्यः, 'त्रिलिङ्ग मिति लिङ्गत्रययुक्तं दशविनयं-दशविधविनयोपेतं त्रिशुद्ध-शुद्धित्रयसमन्वितं 'पंचगयदोस'ति गताः पञ्च दोषा यस्मात्तद्गतपञ्चदोष, दोषपञ्चकपरिवर्जितमित्यर्थः, छन्दोभङ्गभयाच क्तान्तस्य परनिपातः, अष्टप्रभावनंअष्टविधप्रभावनापरिगतं भूसणलक्षणपंचविहसंजुत्तंति पञ्चविधेन भूषणेन पञ्चविधेन च लक्षणेन संयुक्तं, अत्रापि पञ्चविधशब्दस्य परनिपातस्तथैव, तथा षड्विधौ यतनाकारौ यस्य तत् षड्विधयतनाकारं, षड्भियतनाभिः षड्भिश्चाकारैः परिकलितमित्यर्थः, षड्भावनाभावितं-पभिर्भावनाभिर्निरन्तरं परिशीलितं, षट्स्थान-स्थानषटकयुक्तं, इत्येवं सप्तषष्ट्या 'लक्षणभेदैः' लक्ष्यते-निश्चीयते सम्यत्वमेभिरिति लक्षणानि-श्रद्धानादीनि तेषां भेदाः -प्रकाराः परमार्थसंस्तवादयस्तैर्विशुद्धं चस्यैवकारार्थत्वादेतैः सप्तषष्ट्या लक्षणभेदैविशुद्धमेव परमार्थतः सम्यक्त्वं भवति, सम्यक्शब्दः प्रशंसार्थोऽविरोधार्थो वा, सम्यग्-जीवस्तस्य भावः सम्यक्त्वं, प्रशस्तो मोक्षाविरोधी वा जीवस्य स्वभावविशेष इतियावत् ॥ ९२७ ॥ अथैतानेव लक्षणभेदान प्रत्येकं प्रतिपिपादयिषुः प्रथमं 'चउसद्दहणं ति व्याख्यातुमाह
-'परमे'त्यादि, परमाश्च-तात्त्विकाश्च तेऽर्थाश्व-जीवाजीवादयस्तेषु संस्तवः-परिचयस्तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमा|भ्यास इतियावत् वाशब्द उत्तरापेक्षया समुच्चये इति प्रथमं श्रद्धानं, तथा सुष्टु-सम्यग्नीत्या दृष्टा-उपलब्धाः परमार्था-जीवादयो यैस्ते सु
Jain Education
For Private & Personel Use Only
www.jainelibrary.org