________________
-
-
-
अधस्ताद्विस्तरतो देशोनसप्तरज्जूप्रमाणः तिर्यग्लोकमध्यभागे एकरज्जूः ब्रह्मलोकमध्ये पश्चरज्जूः उपरि च लोकान्ते एकरज्जूः शेषस्थानेषु पुनरनियतविस्तरः, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य घनीकरणाय प्रथममुपरितनलोकार्ध संवर्त्यते, तथाहि-सर्वत्रैकरज्जूविस्तीर्णायास्त्रसनाड्या दक्षिणभागवर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च ये द्वे खण्डे कूर्पराकारसंस्थिते ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जूविस्तीर्णे देशोनार्धचतुष्टयरज्जूच्छ्रये ते बुद्धिकल्पनया समादाय त्रसनाड्या एवोत्तरपार्श्वे वैपरीत्येन सङ्घात्येते, एवं चोपरितनं लोकार्ध त्रिरज्जूविस्तार देशोनसप्तरज्जूच्छ्रयं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जूप्रमाणमन्यत्र त्वनियतबाहल्यं जायते, ततोऽधोलोके च त्रसनाड्या दक्षिणभागवबंधोलोकखण्डमधोभागे देशोनत्रिरज्जूविस्तारं क्रमेण हीयमानविस्तरं तावद्यावदुपरिष्टाद्रज्वसङ्ख्येयभागविष्कम्भं समधिकसप्तरज्जूच्छ्रयं बुद्ध्या परिगृह्य त्रसनाड्या एवोत्तरपार्श्वे ऊर्धाधोभागविपर्यासेन संयोजयेत् , एवं च कृतेऽधस्तनं लोकार्ध देशोनचतूरज्जूविस्तारं सातिरेकसप्तरज्जूच्छ्रयं बाहल्यतोऽप्यधः क्वचित्किञ्चिदूनसप्तरज्जूमानं अन्यत्र त्वनियतवाहल्यं जयाते, तत उपरितनमधू बुद्ध्या गृहीत्वाऽधस्तनस्यार्धस्योत्तरपार्श्वे सङ्घात्यते, तथा च सति कचित्सातिरेकसप्तरज्जूच्छ्रयः कचिच्च देशोनसप्तरज्जूच्छ्र यः विस्तरतस्तु देशोनसप्तरज्जूप्रमाणो घनो जातः, ततः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य उत्तरपार्श्वे ऊधि आयतं सङ्घा
त्यते, ततो विस्तरतोऽपि परिपूर्णाः सप्त रज्जवो भवन्ति, 'तथा सङ्घातितोपरितनखण्डस्य बाहल्यं कचित्पञ्च रजवः अधस्तनखण्डस्य तु दि बाहल्यं अधस्ताद्यथासम्भवं देशोनाः सप्त रजवः, तत उपरितनखण्डबाहल्याद्देशोनरज्जूद्वयमत्रातिरिच्यते इत्यस्मादतिरिच्यमानबाहल्या
दर्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् कियत्यपि प्रदेशे किञ्चिदूनाः षट् रजवो भवन्ति, व्यवहारतस्तु सर्वमप्येतच्चतुरस्रीकृतनभःखण्डं सप्तरज्जूप्रमाणमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णस
KASAMAC44LMOS
-
-
-
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org