________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ २६९ ॥
Jain Education Int
ष्पन्नसूचीचतुष्टयात्मिका उपरितनाधस्तनखण्डकरहिता षोडशखण्डकसङ्ख्या प्रतररज्जुः सम्पद्यते, तथा प्रतर एव सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतञ्च समसङ्ख्यखण्डकोपेता सर्वतश्चतुरस्रा घनरज्जूः, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव घनस्येह रूढत्वात्, प्रतररज्जुश्च दीर्घविष्कम्भाभ्यामेव समानपिण्डस्तस्यैकखण्डकमात्रत्वादिति भावः, एषा च घनरज्जूचतुःषष्टिखण्डकात्मिका, पूर्वोक्तसूच्याऽ| नन्तरोदितषोडशखण्डकप्रमिते प्रत्तरे गुणिते एतावतामेव खण्डकानां भावात्, स्थापना च- प्रागुक्तषोडशखण्डकात्मकप्रतरस्योपरि त्रीन् वारान् षोडश षोडश खण्डकानि दत्त्वा भावनीया, तथा च दैर्घ्यविष्कम्भपिण्डैस्तुल्योऽयमापद्यत इति उक्तं च - " सूई रज्जू चउहिं उ खंडगेहिं सोलसहिं पयररज्जू य । चउसद्विखंडगेहिं घणरज्जू होइ विन्नेया ॥ १ ॥” ततो द्वादशोत्तरपञ्चशतरूपस्याधोलोकखण्डकराशेः प्रतररज्ज्वानयनाय षोडशभिर्भागे हृते द्वात्रिंशत्प्रतररज्जवो भवन्ति, तथा उपरि-ऊर्द्धलोके एकोनविंशतिः प्रतररज्जवः, चतुरुत्तरशतत्रयस्य षोडशभिर्भागहारे एकोनविंशतेरेव लभ्यमानत्वात् तथा सर्वपिण्डेन - अधोलोकोर्द्धलोक सम्बन्धिसर्वरज्जूमीलनेन एकपश्वाशत्प्रतररज्जवो भवन्तीति ॥ ९९२ ॥ साम्प्रतं घनरज्जूसङ्ख्यां प्रतिपिपादयिषुः प्रथमं तावल्लोकघनीकरणमाह- 'दाहिण' गाहा 'हेट्ठाओ' गाहा, ऊर्द्धलोके त्रसनाड्या दक्षिणपार्श्ववर्तिनी ये द्वे खण्डे - ब्रह्मलोकमध्यादधस्तनमुपरितनं च खण्डं ते परिगृह्य विपरीते च विधाय-अधस्तनभागमुपरितनं उपरितनं च चाधः कृत्वेत्यर्थः वामपार्श्वे सन्दध्यात् - संयोजयेत्, ततस्ते द्वे खण्डे रज्जूविस्तृतया त्रस - नाड्या युते सर्वत्र विस्तरतस्तिलो रज्जवो जाताः ऊर्द्धाधोच्छ्रयेण सप्त रज्जवः इत्यूर्द्धलोकसंवर्त्तनं, 'हेट्ठाउ'ति अधस्ताद्-अधोलोके पुनस्त्रसनाडीतो वामभागवर्ति खण्डं बुद्ध्या गृहीत्वा दक्षिणपार्श्वे विपरीतं कृत्वा स्थापयेत्, तत उपरितन संवर्तितोर्द्ध लोकरूपं खण्डं त्रिरज्जूविस्तीर्ण संवर्तिताधोलोकखण्डस्य वामे स्थाने - वामपार्श्वे सङ्घातयेत् इयमत्र भावना - इह स्वरूपतस्तावल्लोक ऊर्द्धाधश्चतुर्दशरज्जूप्रमाणः
For Private & Personal Use Only
१४३ लो
कखण्डकादि
गा. ९०२
९१७
॥ २६९ ॥
www.jainelibrary.org