________________
प्रतिपृथिवि तिर्यक्खण्डकप्रमाणमाह-'अट्ठावीसे'त्यादि, सप्तम्यां-तमस्तमःप्रभायां नरकपृथिव्यामष्टाविंशतिः खण्डकानि तिर्यग्भवन्ति,8
तत्र त्रसनाड्या बहिरेकपार्श्वे द्वादश द्वितीयपार्श्वेऽपि द्वादश त्रसनाडीमध्ये च चत्वारीति, तमःप्रभायां षड्विंशतिः खण्डकानि चत्वारि मध्ये है बहिर्भागयोश्चैकादशैकादशेति, धूमप्रभायां चतुर्विंशतिः चत्वारि मध्ये उभयपार्श्वयोश्च दश दशेति, पङ्कप्रभायां विंशतिः मध्ये चत्वारि बहिर्भागयोश्चाष्टाष्टाविति,वालुकाप्रभायां षोडश मध्ये चत्वारि उभयपार्श्वयोश्च षट्पडिति, शर्कराप्रभायां तिर्यग्दश खण्डकानि चत्वारि मध्ये दक्षिणवामभागयोश्च त्रीणि त्रीणीति, रत्नप्रभायां च त्रसनाडीमध्यगतान्येव चत्वारि तिर्यक्खण्डकानीत्येवं सप्तस्वपि तमस्तमःप्रभाद्यासु पृथिवीपु तियक्तिरश्वीनखण्डकानां-कल्पितचतुरस्राकारनभोभागरूपाणां परिमाणं-सङ्ख्यानं समवसेयमिति ।। ९१०॥अथ सकलस्यापि लोकस्य खण्डकसर्वसङ्ख्यामाह-'पञ्चे'त्यादि, पञ्च शतानि द्वादशोत्तराणि-द्वादशाधिकानि खण्डकानां 'हे'त्ति अधोलोके भवन्ति, तथाहि-'अडवीसा' इ. त्यादिगाथोक्तान अष्टाविंशत्याद्यङ्कान मीलयित्वा प्रतिपृथिवि अष्टाविंशतिषड्विंशत्यादिखण्डकसलयोपेतपतिचतुष्टयसद्भावाच्चतुर्भिर्गुणयेत् , ततो जायन्ते पञ्च शतानि द्वादशोत्तराणीति, 'अह उडे'ति अथ-अधोलोकादनन्तरमूर्द्ध-ऊर्द्धलोके त्रीणि शतानि चतुर्भिरभ्यधिकानि खण्डकानां भवन्ति, 'तिरियं चउरो दोसु' इत्यादिगाथाद्वितयोदितखण्डकमीलने यथोक्तसङ्ख्यासद्भावात् , सर्वाणि चाधोलोकोद्धलोकसम्बन्धीनि खण्डकानि मिलितानि अष्टौ शतानि षोडशाधिकानि भवन्तीति ।।९११॥ अथ सर्वस्मिन्नपि लोके यावत्यो यावत्यो रज्जवो भवन्ति तावतीदर्शयितुमाङ्-'बत्तीसं'इत्यादि, रुचकस्य-पूर्वोक्तस्वरूपस्याधस्तादधोलोके इत्यर्थः द्वात्रिंशद्रजवो भवन्ति ज्ञातव्याः, इह किल त्रिधा रज्जःसूचीरज्जूः प्रतररज्जूर्घनरज्जूश्च, तत्रायामतः खण्डकचतुष्टयप्रमाणा बाहल्यतः पुनरेकखण्डप्रमिता खण्डकश्रेणिः सूच्याकारव्यवस्थापितखण्डकचतुष्टयनिष्पन्नत्वात्सूचीरज्जूः, तथा एषैव प्राक्प्रदर्शिता खण्डकचतुष्कात्मिका सूचिस्तयैव गुण्यते अतः प्रत्येक खण्डकचतुष्टयनि
Jain Educational
For Private Personal use only
www.jainelibrary.org