________________
वेन पुनः पञ्चैव रेखाः स्थाप्या भवन्ति, तथा 'पाएसु चउसु'त्ति सप्तम्यास्तृतीयार्थत्वाञ्चतुर्भिः पादैः-खण्डकैरेका रज्जूभवति, इह चतुर्भिः खण्डकैरेका रज्जूः परिकल्पिता ततो रज्जूचतुर्थभागत्वात् खण्डकं पाद इत्यमिहितं, चतुर्दशरज्जूश्च-ऊधिोभावेन चतुर्दशरज्जूप्रमाणा त्रसनाडी, इयमत्र भावना-तिर्यग्व्यवस्थापितसप्तपञ्चाशद्रेखाभिरूधिोभावेन षट्पञ्चाशत्खण्डकानि जायन्ते, चतुर्भिश्च खण्डकैरेका रज्जूरिति षट्पञ्चाशतश्चतुर्भिर्भागहारे ऊर्ध्वाधश्चतुर्दश रजवो लभ्यन्ते इति, तिर्यक्रसनाडीमध्ये सर्वत्र एकैव रज्जूरुपर्यघोभावविनिवेशितरेखापञ्चकेन खण्डकचतुष्कस्यैव निष्पन्नत्वात् , एवं तावत् त्रसनाडीमध्ये अधिोभावेन खण्डकान्युक्तानि ॥ ९०६ ॥ अथ सकलस्यापि लोकस्य तिर्यग्वर्तीनि खण्डकान्यभिधातुकामः प्रथमं तावदूर्द्धलोके रुचकादारभ्य लोकान्तं यावत्तिर्यकखण्डान्याह'तिरिय मित्यादि, रुचकसमाद् भूभागादूर्द्ध द्वयोः पङ्क्तयोरेकोनत्रिंशत्तमरेखोपरिवर्तिन्योस्तिर्यक्-तिरश्चीनानि चत्वारि चत्वारि खण्ड
| कानि त्रसनाडीमध्यगतान्येव भवन्ति, सनाड्या बहिस्तत्र खण्डकानामभावात् , तत उपरितन्योर्द्वयोः पतयोः षट् खण्डकानि, तत्र तिचत्वारि त्रसनाडीमध्यवर्तीन्येव एकैकं तु त्रसनाड्या बहिः प्रत्येकमुभयपार्श्वयोरिति, तत एकैकस्यां पतौ क्रमेणाष्टौ दश च खण्डकानि,
तथाहि-एकस्यां पङ्को नाडीमध्ये चत्वारि बहिश्चैकपार्श्वे द्वयं द्वितीयपार्श्वेऽपि द्वयमित्यष्टौ, अपरस्यां च पक्तौ चत्वारि मध्ये बहिश्च उभयतः प्रत्येकं त्रितयं त्रितयमिति दश, ततोऽपि द्वयोः पङ्क्तयोः प्रत्येकं द्वादश द्वादश खण्डकानि चत्वारि मध्ये बहिश्चत्वारि चत्वारीति, तदन|न्तरं द्वयोः पतयोः प्रत्येकं षोडश षोडश खण्डकानि चत्वारि मध्ये पार्श्वयोश्च षट् षडिति, तत उपरितनीषु चतसृषु पतिषु प्रत्येकं विं
शतिः खण्डकानि चत्वारि मध्ये बहिश्चैकपार्श्वेऽष्टावपरपार्श्वेऽप्यष्टाविति, तदेवमूर्द्धलोके चतुर्दशसु पनिषु यथासम्भवं खण्डकानां वृद्धिरुक्ता ४॥९०७॥ अथ चतुर्दशस्वेव पतिषु हानिमाह-(प्रन्था. १०००० 'पुणरवी'त्यादि, पुनरप्युपरितनपक्लिह्वये षोडश खण्डकानि, भावना च
Jain Education International
For Private Personal Use Only
www.jainelibrary.org