SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथ० सा रोद्धारे तत्त्वज्ञानवि० ॥ २६५ ॥ ४४ चन्द्रमासा द्वाषष्टिरिति द्वाषष्ट्या भागे हृते यल्लभ्यते तच्चन्द्रमासमानं, तथाऽस्यैव युगदिनराशेरेकषष्टिर्युगे ऋतुमासा: इत्येकषष्ट्या भागहरणे लब्धं यथोक्तमृतुमासमानं, तथा युगे सूर्यमासाः षष्टिरिति षष्ट्या ध्रुवराशेर्भागहारे यल्लब्धमेतत्सूर्यमासपरिमाणं, उक्तं च-- 'रिक्खा - ईमासाणं करणमिणमं तु आणणोवाओ। जुगदिणरासिं ठाविय अट्ठार सयाई तीसाई ॥ १ ॥ ताहे हराहि भागं रिक्खाईयाण दिणकरंताणं । सन्तट्ठीबावट्ठी एगट्ठीसट्टिभागेहिं ॥ २ ॥” [ ऋक्षादिमासानां करणमिदं त्वानयनोपायः युगदिनराशि स्थापयित्वाऽष्टादश शतानि त्रिंशानि ॥ १ ॥ ततो हर भागमृक्षादीनां दिनकरान्तानां सप्तषष्टिद्वाषष्टिएकषष्टिषष्टिभागैः ॥ २ ॥] तथा तस्मिन् वर्षे अभिवर्धितरूपे तृतीये पञ्चमे वा त्रयोदश शशिमासा भवन्ति तद्वर्ष द्वादशभागीक्रियते तत एकैको भागोऽभिवर्धितमास इत्युच्यते, इह किलाभिवर्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनपरिमाणं व्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य ३८३६३ तथाहि - एकस्मिन् चन्द्रमासे एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागाः, मासाश्च त्रयोदश इति तानि दिनानि तदंशाचं त्रयोदशभिर्गुण्यन्ते जातानि सप्तसप्तत्युत्तराणि दिनानां त्रीणि शतानि, अंशानां च षोडशाधिकानि चत्वारिं शतानि ते चं दिनस्य द्वापष्टिभागाः ततो दिनानयनाय द्वाषष्ट्या भागो हियते लब्धानि षट् दिनानि तानि च पूर्वोक्त दिनेषु मील्यन्ते, ततो जातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे मासा द्वादश इति मासानयनाय द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते चतुर्विंशत्युत्तरशतभागकरणार्थं चतुर्विंशत्युत्तरशतेन गुण्यन्ते, जातानि त्रयोदश शतानि चतुष्षष्ट्यधिकानि, येऽपि च उपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थं द्वाभ्यां गुण्यन्ते जाता अष्टाशीतिः, साइनन्तरभागराशौ प्रक्षिप्यते, जातानि च चतुर्दश शतानि द्विपञ्चाशदधिकानि तेषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंश Jain Education International For Private & Personal Use Only १४१ चान्द्रादिमा सपञ्चकम् गा. ८९८ ९०० ॥ २६५ ॥ wwww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy