SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ त्युत्तरशतभागानां एतावदभिवर्धितमासप्रमाणं, उक्तं च - "जंमि वरिसंमि तेरस ससिणो मासा हवंति सो वरिसो । बारसभाए कज्जइ अभिबडियमास सो भागो ॥ १ ॥” [ यस्मिन् वर्षे त्रयोदश शशिनो मासा भवन्ति तत् वर्षं । द्वादशभागीक्रियते स भागोऽमि - वर्धितमासः ॥ १ ॥ ] इति १४१ ।। ८९८ ॥ ८९९ ॥ ९०० ॥ सम्प्रति 'वरिसाण पंच भेय'त्ति द्विचत्वारिंशदधिकशततमं द्वारमाह--- संवच्छरा उ पंच उ चंदे १ चंदे २ ऽभिवडिए ३ चेव । चंदे ४ ऽभिवडिए ५ तह बिसट्ठिमासेहिं जुगमाणं ॥ ९०९ ॥ चान्द्रश्चान्द्रोऽमिवर्धितः चान्द्रोऽभिवर्धितश्चेत्येवं क्रमेण पञ्च संवत्सरा भवन्ति, एते च पञ्चाप्यनेन क्रमेण भवन्तो मिलित्वा एकं युगं निष्पादयन्तीति युगसंवत्सरा इत्युच्यन्ते, तत्र पूर्वोक्तस्वरूपचन्द्रमासनिष्पन्नत्वात्संवत्सरोऽपि चान्द्रः, तस्य च प्रमाणं त्रीणि शतानि चतुपश्वाशदुत्तराणि दिनानां द्वादश च द्वाषष्टिभागाः ३५४६३ तथाहि - एकोनत्रिंशद्दिनानि द्वाषष्टिभागीकृतस्याहोरात्रस्य च द्वात्रिंशदंशाश्चन्द्रमास: २९३३ स च द्वादशभिर्गुण्यते ततो यथोक्तं चन्द्रसंवत्सरप्रमाणं भवति, एवं द्वितीयचतुर्थावपि संवत्सराविति, तथा चन्द्रसंवत्सरादेकेन मासेनाभिवर्धितत्वादभिवर्धितसंवत्सरः, तस्य च प्रमाणं त्रीणि शतानि अह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच द्वाषष्टिभागाः ३८२६३ तथाहि एकत्रिंशदहोरात्राश्चतुर्विंशत्युत्तरशतभागानां चैकविंशं शतमभिवर्धितमा सप्रमाणं तत्रैकत्रिंशद्दिनानि द्वादशभिर्गुण्यन्ते जातानि द्वासप्तत्युत्तराणि त्रीणि शतानि यच्चैकविंशत्यधिकं भागशतं तदपि द्वादशभिर्गुण्यते जातानि द्विपञ्चाशदधिकानि चतुर्दश शतानि तेषां च चतुर्विंशत्यधिकशतेन भागहरणे लब्धान्येकादश दिनानि तानि च पूर्वोक्तदिनेषु प्रक्षिप्यन्ते, भवन्ति च त्रीणि शतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy