SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 4554-% EHARHARA [र्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणः संवत्सरः, द्वादशचन्द्रमासप्रमाणात्संवत्सरादेकेन मासेनामिवर्धितत्वात् , परं तद्द्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचारादभिवर्धितः, तदेवमुक्ता नामतो नक्षत्रादयः पञ्चापि मासाः, ॥ ८९७ ॥ साम्प्रतमेतेषामेव मासानां दिनपरिमाणमाह-'अहरत्ते'गाहा 'उउगाहा 'भागा'गाहा, नाक्षत्रो-नक्षत्रसम्बन्धी मासः सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य सप्तषष्टि गास्त्रिः सप्त-त्रयो वाराः सप्त, एकविंशतिरित्यर्थः, तथा चान्द्र:-चन्द्रमासः एकोनत्रिंशदोरात्रा द्वापष्टिभागाश्च अहोरात्रस्य द्वात्रिंशत् , तथा ऋतुमासः परिपूर्णानि त्रिंशदिनानि, तथा आदित्यः-आदित्यमासो भवति त्रिंशदहोरात्रा अर्ध चाहोरात्रस्य, तथा अमिवर्धितमासो दिनानामेकेनाधिका त्रिंशत् , एकत्रिंशदहोरात्रा इत्यर्थः, एकस्य चाहोरात्रस्य चतुर्विशत्युत्तरशतरूपेण छेदेन-भागेन विभक्तस्य एकविंशत्यधिक शत भागानां भवतीति, एते पञ्चापि मासा यथा निष्पत्तिं लभन्ते तथा 'समयात्' सिद्धान्ताद् 'ज्ञेयं ज्ञातव्यमिति । स च निष्पत्तिप्रकारः सिद्धान्तानुसारेण विनेयजनानुग्रहाय किञ्चिद्दयते-इह किल चन्द्रचन्द्राभिवर्धितचन्द्रामिवर्धितलक्षणसंवत्सरपञ्चकप्रमाणे युगे अहोरात्रराशिस्विंशदधिकाष्टादशशतप्रमाणो १८३० भवति, कथमेतदवसीयते ? इति चेदुच्यतेइह सूर्यस्य दक्षिणमुत्तरं वा अयनं यशीतिअधिकदिनशतात्मकं युगे च पञ्च दक्षिणायनानि पश्चोत्तरायणानीति सर्वसङ्ख्यया दशायनानि ततख्यशीत्यधिक दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः, एवंप्रमाणं दिनराशि स्थापयित्वा नक्षत्रचन्द्रऋत्वा| दित्यमासानां दिनमानानयनाय यथाक्रमं सप्तषष्टिद्वाषष्ट्येकषष्टिषष्टिलक्षणैर्भागहारैर्भागं हरेत् ततो यथोक्तं नक्षत्रादिमासगतदिनपरिमाण मागच्छति, तथाहि-युगदिनराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो ध्रियते, तस्य सप्तपष्टियुगे नक्षत्रमासा इति सप्तषष्ट्या भागो हियते लब्धाः • सप्तविंशतिरहोरात्राः एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः एष नक्षत्रमासः, तथा तस्यैव युगदिनराशेविंशदधिकाष्टादशशतमानस्य युगे Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy