SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १४०वचनषोडश कमू १४१ नक्ष-. त्रादिमासपञ्चकम्. गा.८९६ प्रव० सान मासा य पंच सुत्ते नक्खत्तो१चंदिओं २ य रिउमासो ३ । आइचोविय अवरो ४ऽभिवडिओ रोद्धारे तह य पंचमओ ५ ॥८९७॥ अहरत्त सत्तवीसं तिसत्तसत्तहिभाग नक्खत्तो २७ ।। तत्त्वज्ञा चंदो उणत्तीसं विसडिभाया य बत्तीसं २९ ॥ ३३ ॥ ८९८ ॥ उउमासो तीसदिणो ३० आनवि० इचो तीस होइ अद्धं च ३०।३। अभिवडिओ य मासो चउवीससएण छेएणं ॥ ८९९ ॥ भागाणिगवीससयं तीसा एगाहिया दिणाणं तु ३१ ।२। एए जह निप्फत्तिं लहंति ॥२६४॥ समयाउ तह नेयं ॥ ९००॥ मासा नक्षत्रादयः पञ्च 'सूत्रे' पारमेश्वरे प्रवचने प्रतिपादिता इति शेषः, तत्र नक्षत्रेषु भवो नाक्षत्रः, किमुक्तं भवति ?-चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्कालप्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले परिवर्तयतो निष्पन्न इत्युपचारान्मासोऽपि नक्षत्रं, तथा चन्द्रे भवश्चान्द्रः युगादौ श्रावणे मासे बहुलपक्षप्रतिपद आरभ्य यावत्पूर्णिमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रो मासः, एकपौर्णमासीपरावर्तश्चान्द्रो मास इतियावत् , अथवा चन्द्रचारनिष्पन्नत्वादुपचारतो मासोऽपि चान्द्रः, चः समुचये, तथा ऋतुमासः, इह किल ऋतुर्लोकरूढ्या षष्टाहोरात्रप्रमाणो मासद्वयात्मकः तस्यार्धमपि मासोऽवयवे समुदायोपचारात् ऋतुः स चार्थात्परिपूर्णत्रिंशदहोरात्रप्रमाणः, एष एव च ऋतुमासः कर्ममास इति वा सावनमास इति वा व्यवहियते, उक्तञ्च-एस लाचेव उउमासो कम्ममासो सावणो मासो भन्नइ" इति, तथा आदित्यस्यायमादित्यः, स च एकस्य दक्षिणायनस्योत्तरायणस्य वा व्यशीत्य धिकदिनशतप्रमाणस्य षष्ठभागमानः यदिवा आदित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्यादित्यः, तथा पञ्चमो मासोऽभिवर्धितः, अभिव ॥२६४॥ Jain Education International For Private 3 Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy