________________
यथा इदमिदानीं कर्तव्यमिदं नेति यद्वा अनभिगृहीता याऽर्थमनमिगृह्योच्यते डित्थादिवत्, अभिगृहीता स्वर्थमभिगृह्य योच्यते घटादिवत् ९ संशयकरणी या एकका वागनेकार्थामिधायितया परस्परं संशयमुत्पाद्यति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु १० व्याकृता या प्रकटार्था ११ अव्याकृता अतिगभीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता बा, अविभावितार्थत्वादिति १२ १३९ ॥ ८९४ ॥ ८९५ ।। इदानीं 'वयणसोलसगं' ति चत्वारिंशदुत्तरशततमं द्वारमाह
कालतियं ३ वयणतियं ६ लिंगतियं ९ तह परोक्ख १० पञ्चक्खं ११ । उवणयऽवणयचउक्कं १५ अज्झत्थं चैव सोलसमं ॥ ८९६ ॥
कालत्रिकं तथा वचनत्रिकं तथा लिङ्गत्रिकं परोक्षमत्र प्रथमैकवचनस्य लोपः तथा प्रत्यक्षं तथोपनयापनयचतुष्कं तथाऽध्यात्मं चैव षोडशमिति गाथावयवार्थः । तत्राकरोत्करोति करिष्यतीत्यतीतादिकालनिर्देश प्रधानं वचनजातं कालत्रिकवचनमित्यर्थः, तथा एको द्वौ बहव इत्येकत्वाद्यभिधायकः शब्दसन्दर्भे वचनत्रिकमिति, तथेयं स्त्री अयं पुरुषः इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानीति लिङ्गत्रिकं तथा स इति परोक्षनिर्देशः परोक्षवचनं अयमिति प्रत्यक्ष निर्देशः प्रत्यक्षवचनं तथोपनयापनयवचनं चतुर्धा भवति, तथथा - उपनयापनयवचनं तथा उपनयोपनयवचनं तथा अपनयोपनयवचनं तथा अपनयापनयवचनमिति, तत्रोपनयो-गुणोक्तिः अपनथो-दोषभवनं तत्र सुरूपेयं रामा परं दुःशीला इत्युपनयापनयवचनं तथा सुरूपेयं स्त्री सुशीलेत्युपनयोपनयवचनं तथा कुरूपा स्त्रीयं परं सुशीलेत्यपनयोपनयवचनं कुरूपेयं कुशीला चेत्यपनयापनयवचनमिति, तथा अन्यश्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यद्विभणिपुरपि सहसा यश्चेतसि तदेव वक्ति यत्तत् षोडशमध्यात्मवचनम् १४० ॥ ८९६ ॥ इदानीं 'मासाण पंचभेय'त्ति एकचत्वारिंशदुत्तरशततमं द्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org