SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ CACACACANCARRIA साम्प्रतमेतासामेव भाषाणां भेदानमिधित्सुः प्रथमं सत्यभाषाया भेदानाह-'जणवये'त्यादि, सत्या भाषा तावद्दशप्रकारा भवति जनपदसत्यादिभेदात् , तत्र जनपदेषु-देशेषु या यदर्थवाचकतया रूढा देशान्तरेऽपि सा तदर्थवाचकतया प्रयुज्यमाना सत्या-अवितथेति जनपदसत्या, यथा कोकणादिषु पयः पिचं नीरमुदकमित्यादि, सत्यता चास्या अदुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्या १, तथा सकललोकसाम्मत्येन सत्यतया प्रसिद्धा सम्मतसत्या, यथा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसम्भवे गोपालादीनां सम्मतमरविन्दमेव पङ्कजं न शेषमित्यरविन्दे संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्यो|ऽसम्मतत्वादिति २, तथा स्थापनासत्या या तथाविधमकृविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककं पुरतो बिन्दुद्वयसहितमुपलभ्य शतमिदमिति बिन्दुत्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिषु मासोऽयं कार्षापणोऽयमिति, यद्वा यल्लेप्यादिकर्म अर्हदादिविकल्पेन स्थाप्यते सा स्थापना तद्विषये सत्या स्थापनासत्या, यथाऽजिनोऽपि जिनोऽयं अनाचार्योऽप्याचायोऽयमिति ३, तथा नामतः-अभिधानमात्रेण सत्या नामसत्या, यथा कुलमवर्धयन्नपि कुलवर्धनः धनमवर्धयन्नपि धनवर्धनः अयक्षश्च | यक्ष इति ४, तथा रूपतो-रूपापेक्षया सत्या रूपसत्या, यथा दम्भतो गृहीतप्रत्रजितरूपः प्रव्रजितोऽयमिति ५, तथा प्रतीत्य-आश्रिय वस्त्वन्तरं सत्या प्रतीत्यसत्या, यथा अनामिकायाः कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य इखत्वं, न च वाच्यं कथमेकस्या इस्वत्वं दीर्घत्वं च तात्त्विकं परस्परविरोधादिति, भिन्ननिमित्तत्वे परस्परविरोधासम्भवात् , तथाहि-तामेव यदि कनिष्ठां मध्यमा वा एकामङ्गुलिमङ्गीकृत्य इस्वत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः सम्भवेत् , एकनिमित्तत्वे परस्परविरुद्धकार्यद्वयासम्भवात् , यदा त्वेकामधिकृत्य इस्खत्वं अपरामाघिकृय दीर्घत्वं तदा सत्त्वासत्त्वयोरिव भिन्ननिमित्तत्वान्न परस्पर विरोधः, अथ यदि तात्त्विके इखत्वदीर्घत्वे तत Jain Education Intemat For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy