________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि० ॥ २६२ ॥
ऋजुत्ववक्रत्वे इव कस्मात्ते परनिरपेक्षे न प्रतिभासेते ?, तस्मात्परोपाधिकत्वात्काल्पनिके इमे इति, तदयुक्तं, द्विविधा हि वस्तुनो धर्माःसहकारिव्यङ्ग्यरूपा इतरे च तत्र ये सहकारिव्यङ्ग्यरूपास्ते सहकारिसम्पर्कवशात्प्रतीतिपथमायान्ति यथा पृथिव्या जलसम्पर्कतो गन्धः, इतरे त्वेवमेवापि यथा कर्पूरादिगन्धः खत्वदीर्घत्वे अपि सहकारिव्यङ्ग्यरूपे, ततस्ते तं तं सहकारिणमासाद्याभिव्यक्तिमायात इत्यदोषः ६, तथा व्यवहारतो -लोकविवक्षातः सत्या व्यवहारसत्या, यथा गिरिर्दह्यते गलति भाजनं अनुद्रा कन्या अलोमिका एडका, लोको हि गिरिगततृणादिदा तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दह्यते इति ब्रूते, भाजनादुदके श्रवति उदकभाजनयोरभेदं विवक्षित्वा गलति भाजनमिति, सम्भोगजबीजप्रभवोद्राभावेऽनुदति लवनयोग्यलोमाभावेऽलोमिकेति ततो लोकव्यवहारमपेक्ष्य साधोरपि तथा श्रुवतो व्यवहारसत्या भाषा भवति ७, तथा भावतो वर्णादिखरूपा सत्या भावसत्या, किमुक्तं भवति ? - यो भावो वर्णादिर्यस्मिन्नुत्कटो भवति तेन या सत्या भाषा सा भावसत्या, यथा सत्यपि पञ्चवर्णसम्भवे शुक्लस्यैव वर्णस्योत्कटत्वाद्वलाका शुक्केति ८, तथा योगः-सम्बन्धस्तस्मात्सत्या योगसत्या, यथा छत्रयोगाद्विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री, एवं दण्डयोगाद्दण्डी ९, तथा उपमैव औपम्यं तेन सत्या औपम्यसत्या, यथा समुद्रवत्तडागमिति १० ॥ ८९१ ।। अथ द्वितीयभाषाया मृषालक्षणाया भेदानाह — 'कोहे' | इत्यादि, क्रोधनिःसृतादिभेदान्मृषाभाषा दशविधा भवति, सप्तम्याः पञ्चम्यर्थत्वान्निःसृतशब्दस्य च प्रत्येकमभिसम्बन्धात्क्रोधान्निःसृता क्रोधाद्विनिर्गतेत्यर्थः, एवमन्यत्रापि, तत्र क्रोधाभिभूतो विसंवादनबुद्ध्या परं प्रत्याययन् यत्सत्यमसत्यं वा भाषते तत्सर्वं मृषा, तस्य हि आशयोऽतीव दुष्टः, ततो यदपि घुणाक्षरन्यायेन सत्यमापतति शाठ्यबुद्ध्या वोपेत्य सत्यं भाषते तदप्याशयदोषदुष्टमिति मृषा, यथा वा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्र इति अदासं वा दासमभिधत्ते इति १ तथा मानान्निःसृता यत्पूर्वमननुभूतमप्यैश्वर्यमात्मो
Jain Education International
For Private & Personal Use Only
१३९ द्वारे
भाषाचतुष्कम्.
॥ २६२ ॥
www.jainelibrary.org