________________
MARCASEARNAGAR
है गृहपतिरभूत् , स चान्यदा निशीथे चिन्तयामास-नूनं प्राग्भवाचीर्णविस्तीर्णतपःप्रभावतःप्राप्ता तावदियं लक्ष्मीः मान्यता च, ततः पुनरजाप्येष्यद्भवे विशिष्टफलप्राप्तये गृहवासं परित्यज्य किमपि दुस्तपं तपः करोमीयेवं विचिन्त्य प्रातः सर्वानपि स्वजनानापृच्छय तनयं च | निजपदे निवेश्य प्राणामनामकं तापसव्रतमग्रहीत् , तद्दिनादारभ्य च यावज्जीवं षष्ठं तपश्चकार, पारणकदिने च दारुमयं चतुष्पुटं मिक्षापात्रमादाय मध्याह्नक्षणे मिक्षां भ्राम्यति स्म, तत्र प्रथमपुटपतितां भिक्षां पान्थादिभ्यः द्वितीयपुटपतितां मिक्षा काकादिभ्यः तृतीयपुटमिक्षा च मत्स्यादिजलचारिभ्यो दत्त्वा रागद्वेषादिरहितश्चतुर्थपुटभिक्षा स्वयमभुत, एवं द्वादश वर्षाणि बालतपः कृत्वा पर्यन्तसमये मासमेकमनशनमादाय मृत्वा च चमरचञ्चायां चमरेन्द्रो बभूव, उत्पन्नश्च तत्रावधिज्ञानेनेतस्ततः पश्यन्नूर्द्ध सौधर्मावतंसके विमाने सौधर्मेन्द्रं दृष्ट्वा क्रुद्धः सुरानवोचत्-अरे कोऽयं दुरात्माऽप्रार्थितप्रार्थितो मम शिरः स्थित एवं विलसतीति ?, तेऽप्यूचुः-अयं हि पूर्वभवार्जितैः पुण्यैः सर्वातिशायिसमृद्धिपराक्रमः सौधर्माधिपः शक्र इति, एतच्च श्रुत्वाऽधिकतरं क्रुद्धः स्वपरिवारनिवारितोऽपि युयुत्सुः शिक्षयाम्येनमवज्ञाकारिणमिति वदन परिघमादाय स हि शक्तः श्रूयते ततः कथमपि तत्पराजितोऽहं कं शरणं प्रपत्स्ये ? इति विचिन्त्य स सुसुमारपुरे प्रतिमास्थितस्य श्रीमहावीरस्य समीपमागमत् , तत्र च प्रणामपूर्वकं भगवस्तव प्रभावेण वत्रिणं जेष्यामीति विभुं विज्ञप्य लक्षयोजनमानमतिविकृतं निजवपुर्विधाय परिघप्रहरणं परितो भ्रमयन् गर्जन्नास्फोटयन् त्रिदशान त्रासयन् दर्पान्धः सौधर्मेन्द्र प्रति समुदपतत् , तत एकं पादं सौधर्मावतंसकविमानवेदिकायामपरं च सुधर्मायां निधाय परिघेनेन्द्रकीलं त्रिस्ताडयित्वाऽनेकशः शक्रमाक्रोशयामास, शक्रोऽप्यवधितस्तं विदित्वा कोपाज्जाज्वल्यमानः स्फारस्फुरत्स्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच, चमरोऽपि पृष्ठतो दम्भोलिमायान्तमवलोकयितुमध्यक्षमः श्रीमहावीरं शरणं प्रपित्सुर्वपुर्विस्तरमुपसंहृत्य त्वरिततरं पलायिष्ट, समासन्नीभूतकुलिशश्च शरणं शरणमिति ब्रुवाणः
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org