SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० १३७ दे| वादिस्त्री मानं १३८ आश्चर्यदशकं गा.८८३ ॥२५६॥ जिणिंदे पंच उ एगं सवेसु पाएणं ॥८८७॥ रिसहे अहियसयं सिद्धं सीयलजिणंमि हरिवंसो।। नेमिजिणेऽवरकंकागमणं कण्हस्स संपन्नं ॥ ८८८ ॥ इत्थीतित्थं मल्ली पूया असंजयाण नवमजिणे। अवसेसा अच्छेरा वीरजिणिंदस्स तित्थंमि ॥ ८८९॥ | आ-विस्मयतश्चर्यन्ते-अवगम्यन्ते जनैरित्याश्चर्याणि-अद्भुतानि, तानि च उपसर्गादीनि दश, तत्रोपसृज्यते-क्षिप्यते बाध्यते प्राणी धर्मादिभिरित्युपसर्गाः-सुरनरादिकृतोपद्रवाः, ते च योजनशतमिते क्षेत्रे प्रशमितदुर्वारवैरमारिविड्वरदुर्भिक्षाद्युपद्रवोद्रेकस्यापि वरेण्यपुण्यापणस्यापि तीर्थकरस्यापि भगवतः श्रीमहावीरस्य छद्मस्थकाले केवलिकाले च नरामरतिर्यकृताः समभवन् , इदं च किल न जातुचिद जातपूर्व, तीर्थकरा हि निखिलनरामरतिरश्चां सत्कारस्थानमेव, नोपसर्गभाजनं, अनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १ । तथा गर्भस्य-स्त्रीकुक्षिसमुद्भूतसत्त्वस्य संहरणं-अन्यत्रीकुक्षौ सङ्क्रामणं गर्भसंहरणं, एतच्च तीर्थङ्करमुद्दिश्याभूतपूर्वमस्यामवसर्पिण्यां भगवतः श्रीमहावीरस्य जातं, तथाहि-श्रीमहावीरजीवो मरीचिभवे समुपार्जितनीचैर्गोत्रकर्मा प्राणतकल्पपुष्पोत्तरविमानाच्युत्वा ब्राह्मणकुण्डप्रामे ऋषभदत्तापरनामधेयसोमिलद्विजदयिताया देवानन्दायाः कुक्षावाषाढशुक्लषष्ठयामवातरत् , इतश्च व्यशीति दिनेषु समतिक्रान्तेषु सौधर्माधिपतिरुपयुक्तावधिर्न तीर्थकृतः कदाचनापि नीचैःकुलेषु जायन्ते इति विमृश्य भुवनगुरुभक्तिभरभावितमनाः पदात्यनीकाधिपति हरिणेगमेषिमादिक्षत्-यथैष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशतस्तुच्छकुले जातः तयमितः संहृत्य क्षत्रियकुण्डग्रामे प्रसिद्धसिद्धार्थपार्थिवपन्यास्त्रिशलादेव्याः कुक्षौ स्थाप्यतामिति, ततः स हरिणेगमेषिस्तथेति प्रतिपद्याश्वयुकृष्णत्रयोदशीदिवसे रात्रौ प्रथ-| मप्रहरद्वयमध्ये देवानन्दाभिधानब्राह्मण्युदरात् त्रिशलादेव्याः कुक्षौ भगवन्तं संहृतवान् , एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति २ । ॥२५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy