________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
४ प्रत्याख्यानद्वारे शुद्धप्रत्याख्यानकारणस्वरूपं
॥५२॥
* भोक्ष्ये इत्युच्चारणेन शब्दितं, आराधितं चैव-एभिरेव प्रकारैः सम्पूर्ण निष्ठां नीतं, यस्मादेवम्भूतमेवैतदर्हदाज्ञापालनादप्रमादाच महत्कर्म
क्षयकारणं तस्मादीदृशे प्रत्याख्याने यतेत-एवंविध एव यत्नः कर्तव्य इति ।। २१२ ॥ अथ प्रन्थकारः स्वयमेवैतानि पदानि विघृणोति
उचिए'त्यादि गाथात्रयं, उचिते काले विधिना प्राप्तं यत् स्पृष्टं तद्भणितं, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगव* बुध्यमानः सूर्येऽनुद्गते एव स्वसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्न विवक्षितप्रत्याख्यानः पश्चाच्चारित्रपवित्रगात्रस्य गुरोः समीपे
सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागद्वेषादिविकथादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्देन गुरुवचनमनूचरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति, तथा पालितं चासकृन्निरन्तरमुपयोगेन सम्यग् प्रतिजागरितं ॥ २१३ ॥ गुरुदत्तशेषभोजनाऽऽसेवनया च शोभितं जानीहि, पूर्णेऽपि प्रत्याख्यानकाले स्तोककालावस्थानात्तीरितं भवतीति ॥२१४॥ भोजनकालेऽमुकं प्रत्याख्यातमिति | भणित्वा भुतानस्य कीर्तितं, आराधितं प्रकारैः सम्यगेतैः पूर्वोक्तैर्निष्ठां नीतमिति ॥ २१५॥ प्रत्याख्यानं चापवादरूपाऽऽकारसहितं कर्तव्यं अन्यथा तु भङ्गः स्यात् , स च महते दोषायेति कथयन्नाह-'वयभंगे'त्यादि, व्रतभङ्गे-नियमभङ्गे गुरुः-महान् दोषो-दूषणमशुभकर्मबन्धादिरूपं भगवदाज्ञाविराधनात् , तथा स्तोकस्यापि-अल्पस्यापि आस्तां महतः पालना-आराधना गुणकरी तु-कर्मनिर्जरालक्षणोपकारकारिण्येव, विशुद्धपरिणामरूपत्वात् , तथा गुरु च-सारं लघु च-असारं तयोर्भावो गुरुलाघवं तच्च ज्ञातव्यं, केत्याह-धर्मे चारित्रधर्मे, तथाहि-उपवासे कृतेऽपि सजातासमाधेरौषधादिदानतः समाधिसम्पादने निर्जरागुणो गुरुर्भवति इतरथा पुनरल्प इति विमर्शनीयं, एकान्तामहस्य प्रभूतापकारित्वेनाशुभत्वात् , यत एवमत काराः प्रत्याख्याने क्रियन्ते इति ॥ २१६ ॥ ननु प्रत्याख्याने विकृतयो- अभिहितास्ताः कियन्त्यो भवन्तीत्याह
-ॐॐॐॐॐ 5
॥५२॥
Jain Education
For Private & Personel Use Only
.jainelibrary.org