SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ | यतस्ततः खादिम, हेतुत्वेन तदेवाऽऽस्वादयतीत्यर्थः, अथवा सादयति-विनाशयति स्वकीयगुणान् माधुर्यादीन खाद्यमानमिति खादिम, लिन चैतन्निरुक्तं कल्पनामात्रं स्वकीयमिति क्षेयं, भ्रमन रौतीति भ्रमरः हिनस्तीति सिंह इत्यादीनां निरुक्तशब्दानां व्याकरणेषु 'पृषोदरा दीनि यथोपदिष्ट मिति सूत्रेषु प्रसिद्धत्वादिति, न चेदमत्र वक्तव्यमेवंविधव्युत्पत्तौ भेदचतुष्टयी न युज्यते, तथाहि-यथौदनादिकमश्यते तथाऽऽरनालादिकमपि पीयतेऽश्यते इति तथा खजूरादिकमपि खाद्यतेऽश्यते इति तथा गुडादिकमपि खाद्यते, कोऽर्थः ? अश्यत इति, ततः परमार्थत एकाथिका एवैते शब्दा इति भेदकल्पनमयुक्तं, एवं समयभणितनिरुक्तविधिनाऽप्येकार्थत्वमेवैषामिति, अत्र ब्रूमः, अस्त्येतत् परं बालतथाविधज्ञानविकलादीनां सुखावबोधाय विवक्षितद्रव्याणां सुखपरिहाराय च भेदकल्पनाऽपि नायुक्तेति, लोकेऽपि भक्ष्यत्वे तुल्येऽपि भेदो दृश्यते, तथा च वक्तारो भवन्ति-कूरखण्डमण्डकानेतान् भोजयत, एतान् पानीयं द्राक्षापानीयादिपानकं च पाययत, एतान् | बालान् गुडधानाखर्जूरनालिकेरादिकां सुखादिकां खादयत, एतान् दुर्ललितान् ताम्बूलं च पञ्चसुगन्धं खादयत इत्यादि, तथाऽत्रापि भेद-1 कल्पना न्यायवती ।। तत्र अशनमाह असणं ओयण सत्थुगमुग्गजगाराइ खजगविही य । खीराइ सूरणाई मंडगपभिई य विन्नेयं ॥ २०७॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउकाओ सव्वो कक्कडगजलाइयं च तहा ॥ २०८ ॥ भत्तोसं दंताई खजूरगनालिकेरदक्खाई । कक्वडिअंबगफणसाइ बहुविहं खाइमं नेयं ॥ २०९ ॥ दंतवणं तंवोलं चित्तं तुलसीकुहेडगाईयं । महुपिप्पलिसुंठाई अणेगहा साइमं 84545454545555 Jain Education For Private & Personel Use Only T w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy