SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ दिचरिमं प्रत्याख्यानं निष्प्रयोजनं, एकासनादिप्रत्याख्यानेनैव गतार्थत्वादिति, नैतदेवं, एकाशनादिकं ह्यष्टाकारं एतच चतुराकार अत आ-I काराणां सङ्केपकरणात् सफलमेवेति, अत एव एकाशनादिकं देवसिकमेव भवति, रात्रिभोजनस्य व्रतिभित्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वादिति, गृहस्थापेक्षया पुनरिदं आ आदित्योद्माद् ज्ञेयं, दिवसस्याहोरात्रपर्यायतयाऽपि दर्शनात् यथा पञ्चभिर्दिनैर्वयमत्रागताः, पञ्चभिरहोरात्रैरित्यर्थः, तत्र यैर्यावज्जीवमपि रात्रिभोजननियमश्चक्रे तेषामपीदं सार्थकमेवानुवादकत्वेन स्मारकत्वात् , भवचरिमं तु व्याकारमपि भवति, यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न मम प्रयोजनं तदाऽनाभोगसहसाकारौ भवतः, अनाभोगत: सहसाकारतो वाऽङ्गुल्यादेर्मुखे प्रक्षेपसम्भवात् , अत एवेदमनाकारमपि भण्यते, एतस्याकारद्वयस्यापि परिहार्यत्वादिति । तथा पञ्च चत्वारो वाऽभिप्रहप्रत्याख्याने, तत्र दण्डकप्रमार्जनादिरूपेऽभिग्रहे चत्वार आकारा भवन्ति, यथा-"अन्नत्थऽणाभोगेणं सहसागारेणं महत्तत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ” एतद्व्याख्या पूर्ववत् , यदा त्वप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टागारेणं'ति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्र, सागारिकदर्शने चोलपट्टके गृह्यमाणेऽपि न भङ्ग इत्यर्थः । तथा निर्विकृतिके अष्टौ नव वा आकारा भवन्ति, यथा-"निधिगइयं पच्चक्खाइ अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरई" तत्र मनसो विकृतिहेतुत्वाद्विगतिहेतुत्वाद्वा विकृतयो विगतयो वा निर्गता विकृतयो विगतयो वा यत्र तन्निर्विकृतिकं निर्विगतिकं वा प्रत्याख्याति आकाराः | पूर्ववढ्याख्येयाः, नवरं 'पडुच्चमक्खिएणति प्रतीत्य-सर्वथा रूक्षं मण्डकादिकमपेक्ष्य म्रक्षितं-स्नेहितमीपत्सौकुमार्योत्पादनात् म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावात् म्रक्षितमिव यद्वर्तते तत्प्रतीत्यम्रक्षितं म्रक्षिताभासमित्यर्थः, इह चायं विधिः-यद्यङ्गुल्या घृतादि गृहीत्वा **KAPAGSAS C-NCREAST JainEducation For Private 3 Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy