SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ४ प्रत्याख्यानद्वारे आकार स्वरूपं प्रव० सा- आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं बोसिरइ । रोद्धारे | अस्याथे:-'सूरे उग्गए' सूर्योद्मादारभ्य, अनेन भोजनानन्तरं प्रत्याख्यानस्य निषेध इति ब्रूते, भक्तेन-भोजनेनार्थ:-प्रयोजनं भक्ताथैः न तत्त्वज्ञा- भक्तार्थोऽभक्तार्थः अथवा न विद्यते भक्तार्थों यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थः, उपवास इत्यर्थः, आकाराः पूर्ववत् , नवरं पारिष्ठापनवि० | निकाकारे विशेषो-यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते पानके तूद्धरिते कल्पत एव, 'वोसिरह' भक्तार्थमशनादिवस्तु व्युत्सृजति । तथा पानकप्रत्याख्याने षडाकाराः, तत्र पारुषीपूर्वा॥४९॥ | धेएकासनएकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषु उत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं उक्तं, यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा जापानमाश्रित्य पडाकाराः, तथा च सूत्रं-"पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असिथैण| वा वोसिरई" इहाप्यन्यत्रेत्यनुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वेन व्याख्यातत्वात् 'लेवाडेण वेति लेपकृताद्वा-पिच्छलत्वेन भाजनादीनामुपलेपकारकात् खर्जूरद्राक्षादिपानकादन्यत्र तन्मुक्त्वेत्यर्थः, त्रिविधाहारं व्यत्सजतीति सम्बन्धः, वाशब्दोऽत्रालेपकृतपानकापेक्षयाऽवजेनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव वारिणा लेपकारिणाऽप्युपवासादेन भङ्ग इति हृदयं, एवमलेपकृताद्वा पिच्छलात्-सोवीरादेः अच्छात्निर्मलाद्वा प्रासुकाद्वा वर्णान्तरिताद्वा अपिच्छलात् उष्णोदकादेर्बहलाद-गडलात्तिलतण्डुलयवधावनादेः ससिक्थाद्वा-भक्तपुलाकोपतादवश्रावणादेः असिक्थाद-सिक्थवर्जितात्पानकाSSहारादिति । तथा चरमो-दिवसस्य भवस्य च पाश्चात्यो भागः तत्र क्रियमाणं प्रत्याख्यानमपि दिवसचरिमं भवचरिमं चेति कथ्यते, तत्रेदं सूत्रं-"दिवसचरिमं पञ्चक्खाइ चउब्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरई' एवं भवचरिममपि, आकाराः पूर्वमेव व्याख्याताः, ननु दिवस %-1565 50+ LoCOM Jnin Education For Private Personel Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy